सम्भवान् । अन्यथा योग्यताया उन्मृदितत्वात्समयान्तरे पुरोवर्त्ति-
नि प्रवृत्तिर्न स्यात् । न च योग्यतान्तरस्य पुनस्तत्रोत्पाद इति
शङ्क्यम् । योग्यताया यावद्रव्यभावत्वेनान्तरा विच्छेदपुनरुत्पाद
योरसम्भवात् । न च योग्यताप्रतिबन्धो बाधः । विवेकज्ञान-
समये संसर्गज्ञानरूपहेत्वभावादेव संसृष्टापवृत्त्युपपत्तौ प्रतिबन्धक
कल्पनानवकाशात् ।
न तृतीयः । अविविक्तत्वं हि विवकेनागृहीतत्वमभेदेन गृहीत. त्वं वा? आद्येऽपि किं पदार्थज्ञानातिरिक्तं विवेकग्रहणमुत पदार्थज्ञान- मेव ? नाद्यः । आदौ विकेनागृह्यमाणेषु सर्वपदार्थेषु यत्पश्चादित रापेक्षया भेदज्ञानं तस्य तेषु वाधवप्रसङ्गात् । नेतरः पदार्थज्ञान- मात्रस्य विवेकज्ञानत्वे इदं रजतामसत्रापि अविवेकाभावप्रसङ्गात् । न द्वितीयः । पातो घट इति ज्ञानानन्तरं घटस्य पीतत्वमिति ज्ञाने बाधत्वप्रसङ्गात् ।।
अत एव न चतुर्थोऽपि ।
पञ्चमेऽपि किं ज्ञानस्याभावप्रतियोगित्वं बाध उतार्थस्य ? नाद्यः ज्ञानमात्रस्य कतिपयक्षणावस्थायितया ध्वंसप्रतियोगित्वेन बाध्य त्वप्रसङ्गात् । द्वितीयेऽपि किं प्रतिपन्नस्योताप्रतिपन्नस्य ? प्रतिपन्नत्व- पक्षेऽपि भ्रमविषयविषयेणेत्तरज्ञानेन बाध उतान्यविषयेण ? नाद्यः भ्रान्तिवद्बाधकज्ञानेनापि शुक्तीदमंशतादाम्यापनरजताविषयीकरणे- न भ्रमप्रामाण्यस्यैव दृढीकरणात् । नेतरः भिन्नगोचरत्वेन बाध्य बाधकाभावप्रसङ्गात् । न द्वितीयः, तथा सयप्रसक्तनिषेधानुपपत्तेः । नाप्यज्ञाननिवृत्तिः। नेदं रजतमिति प्रतीत्या तदविषयीकरणात् ।
अत्रेदं त्रिचार्यते । भ्रान्तिप्रतिपन्नस्यैवार्थस्य तद्विषयेणैवो- त्तरज्ञानेनाभावप्रतियोगित्वबोधः कथं न बाधः । न च तेनैव त- त्रैव तस्यैव सत्त्वं विषयकृत्यासत्वबोधने व्याघात इति शङ्क्यम् । द्वि- विधं हि विषयीकरणं विधातु निषेधुं च तत्र द्वितीये न व्याघात-