कथाऽपि तदर्थमेव विषयीकरणान् ।
वर्त्तमानेन प्रलीनेन वा कार्येण सहाज्ञाननिवृत्तिर्वधिः । प्र- माणमात्रे चाज्ञानमात्रस्यैव निर्वतनान्न वाकधकत्वप्रसक्ति विपर्य- योत्पयनन्तरं मनसो विषयान्तरसंचारे च शुक्तिलोचनसम्प्रयोग- जाधिष्ठानज्ञानेनाज्ञानानिवृत्त वार्त्तमानिककार्यभावेनाव्याप्तिः त- द्वारणाय प्रविलीनेनेति । वार्त्तमानिककार्यसहिताज्ञाननिवृत्तीवव्या- प्तिवारणाय च वार्त्तमानिकेति कार्यत्वेनानुगमान्नाननुगमः । स्वप्ने तावदेशान्तरादिसम्बधिदेहेन्द्रियान्तरमन्तःकरणोपहितचैतन्ये- ऽध्यस्यते । एतद्देहादिविपरीतदेशादिसम्वन्ध्येतद्दशादिकं वा । अत एव तदनन्तरं सुप्तोत्थितः क्वाहं क्व् स देशः क्व तद्गजादीति स्मरति । न चन्तःकरणावच्छिन्नचैतन्यस्याधिष्ठानत्वाङ्गीकारेऽहं- कारसामानाधिकरण्येनावभासपत्तिः । तादृश संस्काराभावात् ।
नन्वतिव्यापकमध्यासलक्षणं नामादिषु व्रह्मदृष्टेर्वस्तुत आ- रोयब्रह्मप्रतियोगिकात्यन्ताभाववतोऽन्यस्य नामादेरन्यब्रह्मात्मना- ऽवभाससवात् । नचासावध्यासो न वास्या विषयोऽध्यासो दुष्ट करणजन्यत्वाभावात् । ज्ञानानिरस्यत्वान्मिथ्यार्थगोचरत्वाभा- वाञ्च न ह्यत्रारोप्यस्य ब्रह्मणो मिथ्यात्वम् । मैवम्, ज्ञानत्वाभावेनै- वास्यां लक्षणागमनात् । न हि ज्ञानमिछातः शक्यानुष्ठानमनुष्ठा- पायति चैतमिच्छातो नाम ब्रह्मेत्युपासीतेत्यादिचोदना तस्मान्मा- नसी क्रियेयमिति नतत्रातिव्याप्तिः ।
ननु ज्ञानमपि नारायणस्मरणमिच्छातो जायते इति चैन्न । ज्ञानजनकमनोव्यापारविशेष एव तस्या उपक्षयात् । किमत्र विनि- गमकामिति चेत् ? अनिच्छतोऽपि दुर्गन्धादिबोधदर्शनमिति गृहाण । ज्ञानाकारतयाऽन्तःस्थस्य रजतादेरध्यास इत्यात्मख्यातिवादिनः । बहिष्ठस्येत्यन्यथाख्यातिवादिनः । शुक्तिरजतयोरविवेकात्तादात्म्या- भिमान इत्यख्थातिवादी । शुक्त्यभावो रजतं तद्रूपेण शुक्तिख्याति-