रोक्षव्यवहारविषयत्वात्संविद्वदित्यनुमानस्य सत्त्वात् । हेतौ नित्या-
नुमेयव्यावृत्यर्थं विशेषं घटादिव्युदासार्थं विशेषणम् । तदाकारता -
याः संस्कारदोषादिनिमित्तत्वात्कादाचित्कत्वाद्युपपत्तिः ।
बहिष्ठत्वेन धीरूपं रूप्यं भाति तत्किम् उत्पद्यते वा न वा ? नाद्यः ज्ञानादर्थेत्पत्त्यदर्शनान्नान्त्यः तथा सति धीरजतयोर्विरुद्धो- त्पन्नानुत्पन्नधर्माध्यासेन भेदापातात् । ज्ञानादुत्पत्तिसम्भवेऽपि स्व- जनकेन विषयीक्रियते उतान्येन चा ? नाद्यः समानकालत्वाभावे- नापरोक्षं न स्यात् । द्वितीयेऽपि दुष्टकरणाजन्येन जन्येन वा ? आद्ये सर्वैः विषयीकरणापातः, विनिगमकाभावात् । द्वितीयेऽपि येन वि. षयीकृतं तस्य ज्ञानस्य कर्मीभूतं रजतं तस्य जनकं न वा ? अद्ये तदर्थक्रयाकारि तत्स्यात्तथा च तस्यापि सत्त्वप्रसङ्गः । तथा च ज्ञानमात्रवादित्वभङ्गः । नेतरः रजतस्याप्रतीत्यापत्तेः । जन्य- जनकभावाभावे सम्बन्धान्तरानिरूपणे विषयत्वस्यैवाभावाद ।
दिगम्बरः । प्रतीत्यनुरोधेन यदि भ्रान्तिविषयस्य सत्त्वमभ्यु- पगम्यते तदा पारमार्थिकत्वमेव कल्पनीयं लाघवात् । अपारमा- र्थिकत्वे सत्तात्रैविध्यं निषेधस्य पारमार्थरजतविषयत्वं चेति कल्पनीयमित्यति गौरवम् । तन्न । परमार्थिकत्वेऽनेकग्राह्यत्वप्र- सङ्गात् । दोषस्य नियामकत्वे सत्यस्थलेऽपि स्यात् ।।
वैताण्डकः । कोऽयं वाधो नाम अन्यार्थिनोऽन्यत्र प्रवृत्तिनिघे- धो वा तद्योगिताविच्छेदो वा अविविक्ततया प्रतिपन्नस्य विवेक- ज्ञानं वा इदमंशे रजताद्यन्योन्याभावबोधो वा प्रतिपन्नोपाधाव- भावप्रतियोगित्वबोधो वा अज्ञाननिवृत्तिव ?
नाद्यः । यत्र वैराग्येणैव रजतादौ परिव्राजकादेः प्रत्यनु- दयस्तत्र प्रवृत्तिनिषेधाभावेनाव्याप्तेः । जलज्ञानात्मकृत्युद्यतस्य सर्प- चौरादिदर्शनेन प्रवृत्तिनिषेधे बाधप्रसिद्ध्यापत्तेः ।
न द्वितीयः । बाधकज्ञाने योग्यतायाः क्वचिदपि विच्छेदाभावेना-