च स्वयमेवभवती'त्यादि श्रुत्या तस्य प्रतिबिम्बप्रतिपादनात् ।
नचैवं विषयाकारवृत्तौ प्रतिबिम्बितं सदेव चैतन्यं तत्तदाकार- वृत्तिं च प्रकाशयतीत्यायातं तथा सति "पुरुषनिष्ठ एव बोधः प्रमे’ति पातञ्जलभाष्यं
तस्मिंश्च दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटदुमाः ॥
इति स्मरणं च विरुध्येतेति वाच्यम् । ‘विरोधे त्वनपेक्षं स्या-
दसति ह्यनुमानं' इति न्यायविरोधात् । सूत्रं तु विरोधे–प्रत्यक्ष-
श्रुतिविरोधे अनुमान-स्मृत्यादि यतो मूलभूतश्रुतिकल्पकं दृढ
वैदिकपरिग्रहान्यथानुपपत्तिरूपमतोऽनुपश्चात्प्रत्यक्षोत्तरं प्रत्तत्वा-
दनुमानपदाभिधेयमनपेक्षं स्यादनादरणीयं स्यादप्रमाणं स्यादि-
त्यर्थः । असति-प्रत्यक्षश्रुतिविरोधेऽसति अनुमानं-स्मृत्यादि
प्रमाणं स्यादित्यध्याहृये व्याख्येयम् ।
भाष्यकारादिमते धटमहं जानामीत्याद्यनुरोधेन विषयप्रकाशे पुरुषस्यापि प्रकाशावश्यकत्वे प्रकाश्यप्रकाशकयोः सम्बन्धो वाच्यः सच विषयाकारवृत्तौ विषयतापरपर्यायस्तद्गतचैतन्यप्रतिबिम्बश्च त- द्वत्पुरुषेऽपि स्वप्रकाशार्थमिन्द्रिय सन्निकर्षण लिङ्गज्ञानादिना जाय- मानाया विषयाकारिण्याः बुद्ध्याश्रिताया चैतन्यप्रतिबिम्बविशिष्ट- वृत्तेरपि प्रतिबिम्बो वाच्य स्तथाच विनिगमनाविरहेणान्योन्य- प्रतिबिम्बसिद्धेश्च ।।
एतेन ज्ञानव्यक्तीनामनुगमकधर्माभावेन घटविषयकं पटविषयकं ज्ञानमित्याद्यनुगतव्यवहारानुपपच्या विषयतामतिरिक्तपदार्थ वेद- न्तः परास्ताः, अवश्यक्लृप्तचैतन्यप्रतिबिम्बेनैव निर्वाहेऽतिरिक्तक- स्पने गौरवात् ।
एवं चैतन्यप्रतिबिम्ब एव सुखादिसाक्षात्कार इत्यपि सुवचम् । नच विषयसंयुक्तेन्द्रियसंयुक्तमनः संयोगाख्येनासमवायिकारणेन-