त्व ऽह त्राधिकृत इत्यभिमत्य कर्तव्यमेतन्मयत्यध्यच-
धिकः पुरुषः चिरप्रतिबिम्बश्रया बुद्धिर्वेत्यर्थः । आलोचय-चक्षु- र्द्वारा वहिर्निगैच्छन्त्या चैतन्यप्रतिबिम्बाश्रयय घटाद्याकारान्तः करणवृत्त्या घटादीन् ( प्रकाश्य ततो मत्वेष्टानिष्टकृतिसाध्यासध्य वक्तव्यवक्तव्यादिविभागेन विमृश्य । एतेन प्रवृत्तिनिवृत्तिप्रयज केष्टानिष्टसाधनताज्ञानं सूचितम् ।
एवं सत्यपीदमिष्टसाधनमिदानीन्तनमस्कृतिसाध्यञ्चेति ज्ञाना भावत्प्रवृत्तिरनुपपन्नेत्यत आह-अत्रेति । तथा चोक्तज्ञानवन् अ- धिकृत’ इत्यनेनोक्त इत्यर्थः । मननानन्तरं चिकीर्षाद्वारा प्रवृत्ति- साधनमनुव्यवसायं दर्शयति-कर्तव्यमिति । नचनुव्यवसायस्य चक्षुरादिप्रयोज्यालोचनाद्यधीनत्वाभिधानत्। कथमाद्र्याकार्यत्वमिति वाच्यम् । अन्धबधिरादीनां तत्वज्ञानेनाहङ्कारमनसोर्लयेऽपि स्म रणदर्शनात् भाविविषयकज्ञानदर्शनाञ्चोक्तरीत्या सर्वेकरणव्याप- कवञ्च बुद्धेरेव सर्घत्र कार्यं करणत्वकल्पनात् ।
ततश्च प्रवर्तते इति । उपादिसादिद्वारोति विशेषः ।
ननु जडबुद्धेः परिणमस्याध्यवसायस्य घटद्यविशेषात्कथं विलक्षणव्यवहारप्रयोजकत्वमित्यत आह-तत्रेत्यादि । तथा च बुद्धेरतिस्वच्छतया चित्प्रतिबिम्बग्राहित्ववत्ततत्कार्यस्यापि तद्ग्राहि त्वान्न घटाद्यविशेष इत्यर्थः । नच निरूपस्य निरवयवस्य प्रतिबि - म्बानुपपत्तिरिति वाच्यम् । तादृशरूपादीनां लोके प्रतिबिम्बदर्शनात् । नच नरूपद्रव्यस्यैव तन्नेति नियम इति वाच्यम् । 'अस्थूलमनण्वह्र स्वमदीर्घमशब्दमस्पर्शमव्यय’ मित्यादिद्रव्यत्वव्यापकपरिमाणादिनि- षेधेन द्रव्यत्वस्य तत्राभावेऽपि 'रूपं रूपं प्रतिरूपो बभूव’। 'यथा ह्यां ज्योतिरात्मा विवस्वानपोभिन्न बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ ‘एकधा बहुधा चैव दृश्यते जलचन्द्रव' । 'जीवेशाचाभासेन करोति । माया चद्विद्या