कज्ञानोपयोगितया व्यक्तविशेष बुद्धिं लक्षयति--
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥२३॥
“अध्यवसाय” इति । 'अध्यवसायो बुद्धिः’ क्रिया- क्रियावतोरभेदविवक्षया । सर्वो व्यवहर्ता ऽऽलोच्य म-
तच्छङ्का निरस्ता, मूलप्रकृतिरित्यनेन प्रकृतेलक्षणं पूर्वमुक्तमत उद्दे- श्यक्रमेण महत्तत्वलक्षणपरत्वमाह-
बुद्धिमति । नचाभिमानोऽहङ्कार इत्यादिवन्महच्छब्दाभावा- त्कथं तल्लक्षणनिश्चय इति वाच्यम् ।
यदेतद्विस्तृतं बीजं प्रधानपुरुषात्मकं । .
महत्तत्त्वमिति प्रोक्तं बुद्धितत्वं तदुच्यते ।।
मनो महान्मति र्ब्रह्मा र्पूर्बुद्धि: ख्यातिरीश्वरः ॥
इत्यादिना बुद्धिमहत्तत्वयोरेकपर्यायत्वावगमात् । बुद्धेमहत्तत्व-
सञ्ज्ञा च स्वेतरसकलकार्यव्यापकत्वान्महदैश्वर्याञ्चान्वितार्था ।
‘अस्य च महतो भूतस्य निश्वसितमेतद्यदृग्वेद' इत्यादिश्रुतिस्मृतिषु
हिरण्यगर्भ चेतनेऽपि महानितिशब्दो बुद्ध्यभिमानादेव । यथा पृ-
थिव्यभिमानिनि चेतने ‘यं पृथिवी न वेद'इति पृथिवीशब्दः । एवं
रुद्रादिष्वहङ्कारादिशब्दोऽपि बोध्यः ।
ननु निश्चयाख्यस्याध्यवसायस्य महत्तत्वासाधारणधर्मत्वात्सा- मानाधिकरण्यमनुपपन्नमित्यत आह-क्रियेति । तथाच धर्मिध- र्मयोरस्मिन्मतेऽभेदान्न सामानाधिकरण्यानुपपत्तिरिति भावः । क्रिया चात्रा परिणाम विशेषः । महत्तत्वस्याद्यकार्यत्वे उक्तागमसत्वेऽपि तत्र युक्तिमाह--सर्व इति । शब्दप्रयोगानयनक्रियादिरूपसकलव्य- वह्यरस्य केवलचेतनप्रयोज्यत्वादर्शनेन विशिष्टस्य चे दर्शनेन वि- वादात्सामान्यरूपेण प्रयोजके दर्शयति---व्यवहर्तेति । बुद्ध्युपा-