पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
सर्गक्रमनिरूपणम् ।

न्धतन्मात्राच्छब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इत्यर्थः ॥ २१ ॥

 अव्यक्तं सामान्यतो लक्षितम् “तविपरीतमव्यक्तम्” (कारिका१०)इत्यनेन; विशेषतश्च‘सत्त्वं लघुप्रकाशकम्" (कारिका १३) इत्यनेन । व्यक्तमपि सामान्यतो लक्षितम् “हेतुमत् ( कारिका १० ) इत्यादिना । सम्प्रति विवे-




कार्यकारणभावकल्पनात् ।।

 नचैवं कुलालाहङ्कारस्यापि घटोपादानत्वापत्या कुलालमुक्तौ तदन्तःकरणनाशे तन्निर्मितघटनाशापत्तिरिति वाच्यम् । घटादिषु हिरण्यगर्भाइङ्कारस्यैव कारणत्वात् । तेन च महत्त्वाख्यबुद्धिसिद्धिः ।

 तथाहि-अहङ्कारद्रव्यं निश्चयवृत्तिमद्द्रव्योपादानकं निश्चय कार्यद्रव्यत्वात् । यन्नैवं तन्नैवं यथा पुरुषादि । विपर्यये अयमहं, मयेदं कर्तव्यमित्यादिरूपेणादौ पदार्थं स्वरूपतो विनिश्चित्य पश्चाद- भिमन्यते इति सर्वजनीनं विरुध्येत । सईक्षांचक्रे तदैक्षत बहुस्या- मित्यादि श्रुत्युक्तबुद्धिपूर्वकसृष्टिश्रवणं च विरुध्येत । नच कर्त्तृ निष्टबुद्धिहेतुत्वेऽपि तदाश्रयद्रव्यस्याहेतुत्वं इति वाच्यम् । दत्तोत्तर- त्वात् । तेन च महत्तत्वेन प्रधानसिद्धिः ।

 तथाहि-सुखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्मकद्र- व्यजन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात्कान्तादिवत् । बा- धकं विना कारणगुणानुविधायिकार्यगुणौचित्त्यत्यागो विपर्यये बाधकः । प्रकृतेर्महानित्याद्यागमश्च । नच विषयस्य सुखादिसाधन- त्वाद् दृष्टान्तासिद्धिरिति वाच्यम् । सुखाद्यात्मकत्वस्य पूर्वं सा- धितत्वादिति । प्रकृतेर्महानित्यादावपेक्षितं क्रियापदमध्याहरति जायत इति ॥ २२ ॥

 अवसरसङ्गतिसूचनायाप्रतिज्ञातार्थनिरूपणशङ्कावारणाय च पु- र्वोक्तमनुवदति-अव्यक्तमिति । विवेकज्ञानोपयोगितयेत्यनेन