पुरुषे घटादिविषयक साक्षात्काररूपकार्यसम्भवे घटाद्याकारवृत्तित- त्प्रतिबिम्बादिकल्पनं निष्प्रमाणकमिति वाच्यम् । श्रुतिस्मृतिसूत्रा- शां प्रमाणत्वात् ।
तथाहि -
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टत तामाहुः परम गतिम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाध्ययौ ॥
आत्मनात्माकारं स्वभावतोऽवस्थितं चित्तम् ।
आत्मैकाकारतया तिरस्कृतानात्मदृष्टि विदधीत ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासङ्गो मोक्षाय निर्विषयं स्मृतम्॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र नचैवायं स्थितश्चलति तत्वतः ॥
यं लध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिं स्थितो न दुःखेन गुरुणापि विचाल्यते ॥
तं विद्यादुदुःखसंयोगवियोगं योगसंज्ञितम् ।
‘तदा द्रष्टुः स्वरूपेऽवस्थानं वृत्तिसारूप्यमितरत्रे’ ति ॥
काठकश्रुतिस्तु ज्ञानेन्द्रियाणि मनो बुद्धिश्च न विचेष्टते वृत्ति-
रूपेण न परिणमते । अप्रमत्तः द्वैतभानरूपप्रमादशून्यः ॥ प्रभ-
बाप्ययौ पुण्यहेतुः पापनाशकश्चेति व्याख्येया।
स्मृतिस्तु आत्मानात्माकारं दृग्दृयाकारं यथाहं भुञ्जं इत्यादि यत उभयाकारमतं आत्मातिरिक्ताकारवृत्तिशून्यत्वे सति आत्मा- कारवृत्तिमकुर्यादित्युत्तरार्द्धर्थः । उक्तोभयहेतुमुपपादयतिबन्धा- येति । विषयासङ्गि विषयं व्याप्य तत्तदाकारं भवति विषयाकार-
३९