च्यम् । मूत्रप्रकृतिरिन्यादिना तेषामपि निरूपितत्वात् । नच त- त्प्रपञ्चार्थ एवारम्भो वैयर्थ्यात् । अन्यथा प्रत्येकं विशेषरूपेण ज्ञाना- सम्भवात् । विशेषरूपेण ज्ञानस्य प्रकृतेऽनुपयोगाञ्चेति चेन्न ।
तेषां प्रतिज्ञातत्वेऽपि तत्र हेत्वनिरूपणात् । स्वतन्त्रायाः प्रकृतेर्नि- ष्प्रयोजनसृष्टिहेतुत्वे मुक्तस्य पुनर्बन्धपत्तिरित्याद्याशङ्कावारणाच्च । भिन्नयोरिति स्वरूपकथनं । अपेक्षां विनेति । अपेक्षा स्वस्वकार्यज- ननाय सहकारित्वरूपा नतु परस्पराकाङ्क्षारूपा चेतने तदसम्भवात् ।
दृष्टान्तमाह मूले पङ्ग्वन्धवदिति । यथैकः पङ्गरेकश्चान्धएतौ द्वावपि गछन्तौ मद्दतामार्थेनाटव्यां सार्थस्यतेनं कृतादुपद्रवात्स्वबन्धु- भिः परित्यक्तौ दैवात्तौ संयोगमुपागतौ पुनस्तयोः स्वचनविश्व स्तयोर्गमनार्थो दर्शनार्थश्च संयोगो भवति, ततोऽन्धेन पङ्गुः स्वस्क- धमारोपितः, एवं शरीरारूढपङ्गुदर्शितेन मार्गेणान्धो याति, पङ्ग- शान्धस्कन्धारूढो गच्छति । एवं पुरुषे दर्शनशक्तिस्ति पङ्कवन्न क्रिया,प्रधाने क्रियाशक्तिस्ति अन्धवन्न दर्शनशक्तिः। यथाचानयोः पङ्ग्वन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानं प्राप्तयोस्तथा प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्तते । पुरुषोऽपि प्रधानं दृष्टा कैवल्यं गछति । तयोः कृतार्थयोर्विभागो भविष्यति ।
ननु सत्वं लघुप्रकाशकामति सत्वस्य प्रकाशकत्वोक्त्या प्रका- शानपेक्षणत्वसूचनाद् दृष्टान्तवैषम्यामिति चेन्न । चिच्छायापत्त्या तस्य प्रकाशकत्वाङ्गीकारात् । नचैवमपि प्रधानस्य मोक्षोपयोगिसृष्ट्यादि- जनने प्रकाशनपेक्षणाद् दृष्टान्तवैषम्यं तदवस्थमेवेति वाच्यम् । बुद्धिभावापन्नस्य प्रधानस्य मोक्षहेतु-नाम-नमे-नाहमितिचेतना- वदवभातमानज्ञानरूपपरिणामस्य प्रकाशं विनानुपपत्तेः । अत्र पुरु- षस्य प्रधानस्य चोभयोरपि संयोगो दर्शनार्थं कैवल्यार्थं चेत्यन्व- यः । दर्शनं भोगः प्रधानस्य पुरुषेण, कैवल्यं मोक्षः सत्वपुरुषान्य ताख्यातिनिवन्धनः, पुरुषस्य प्रधानेन विनाऽसम्भवात्तयोः प्रधा-