तस्मात्तत्संयोगादचेतनं चेतनावादव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २० ॥
"तस्मात्” इति । यतश्चैतन्यकर्तृत्वे भिन्नाधिकरणे
युक्तितः सिद्धे, तस्मात् भ्रान्तिरियमित्यर्थः । 'लिङ्गम्'
महदादिसुक्ष्मपर्यन्तं वक्ष्यति । भ्रान्तिबीजं तत्संयोगः
तत्सन्निधानम् । अतिरोहितार्थमन्यत् ॥ २० ॥
'तत्संयोगात् इस्युक्तम्, न च भिन्नयोः संयोग
प्रतीकमधृत्वैवेवशब्दार्थमाह-भ्रान्तिरिति । नथावात्रेवशब्दो नोप- मार्थ इत्यर्थः । संयोगसामान्यस्य परस्परधर्मभ्रान्तिबाजत्वाभावादा- ह-सन्निधानमिति। तथाच पृथिवीजलयोः संयोगो हरिद्वानिल संयोगो वा थथा गन्धशीतस्पर्शयोः पीतमदाहकर्त्तृत्वयोर्विनिमयप्र- योजकस्नथायमपीत्यर्थः । सन्निधानं प्रतिबिम्बत्वं तस्मादचेतनमपि लिङ्गं बुद्धितत्वञ्चेतनादिव जानापति ज्ञानवदिव भवतीत्यर्थ इत्यन्ये
ननु चेतन संयोगाञ्चेतनवदिवाचेतनसंयोगादचेतनवदिव स्यान्न तु कर्तृत्ववदित्यतो मुले आह-गुणकर्तृत्व चेति । अत्र सतिसप्तमी तथा च गुणानां कर्तुत्वे सति कर्तृंसंयोगात्कर्तेव भवतीत्य: । च- कारोऽनुक्तकामादिधर्मसमुञ्चायार्थः । गुणकर्तृत्वे--गुणः सुखदुःखमो- इरूपः, कर्तृत्वं च बुद्धिनिष्ठमात्मनि प्रतिबिम्बितं तेन करोमीति उदासीनोऽपि कर्त्तेव भवतीत्यपरे ॥ २० ॥
उपोद्घातसङ्गातिसूचनाय पूर्वोक्तमनुवदन्नार्य्यामवतारयति---- तत्संयोगादित्युक्तमिति ।
ननु 'हेयहाने तयोर्हेतू' इति चतुव्यूहात्मकशास्त्रविषयस्य समा- प्तत्वादग्रिमग्रन्थानुस्थितिः । नच ‘विकारं प्रकृतिं चैव पुरुषं च सना- तनं । यो यथाबुद्धि जानाति स वितृष्णो विमुच्यते' इत्यादिमोक्ष- धर्मादिषु विकाराणामपि ज्ञेयत्वोक्तेस्तन्निरूपणमावश्यकमिति वा-