सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

ऽपेक्षां विना, न चेयमुपकार्योपकारकभावं विनेत्यपेक्षा- हेतुमुपकारभाह-


 पुरुषस्य दर्शनार्थं कैवल्यार्थी तथा प्रधानस्य ।
 पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥


 पुरुषस्य इति । प्रधानस्येति कर्मणि षष्टी । प्रधानस्य सवैकारणस्य यद्दर्शनं पुरुषेण । तदर्थम् । तदनेन भोग्यता प्रधानस्य दर्शिता । ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण




नपुरुषयोर्द्वयोः संयगो भोक्तृभोग्यभावकरं सन्निधानं भवतीत्यर्थः । भोगापवर्गयोद्वारभूतः सर्गोऽपि संयोगादेवेत्याह-तत्कृत इति । यत्तु मदादिलक्षणः सर्गः संयोगजन्य एवेत्यर्थ इति । तन्न । पुरुषस्य प्रधानस्य च संयोग इत्येव निर्वाहे उभयरित्यस्य वैयर्थ्यापत्तेः । विरुद्ध विभक्तिकयोः सामानाधिकरण्येनान्वयासम्भवाच्च । अन्वय- सम्भवेऽपि दर्शनार्थमित्यादेः साकाङ्क्षतयात्र प्रधानादेरन्वयावश्य- कत्वेन त्वयापि पुनरन्वयाङ्गीकारेण चान्यत्रान्वयस्य वैयर्थ्यापत्तेः ।

 यदपि संयोगो भोक्तृभोग्यभावकरं संनिधानमिति, तदप्यसु- न्दरम् । संयोगे विशेषेणैव भोक्तृभोग्यभावनिर्वाहे संयोग इत्यस्य संयुक्तसंयोगादिरूपसन्निधानपरत्वकथनासङ्गतेः ।

 टीकायां कर्मणि षष्ठीति । ननुभयप्राप्त कर्मणीति सूत्रेण क- र्मणि षष्ठी सिद्धैवेति तत्कथनं व्यर्थं, नच स्वस्य व्याकरणाध्ययनज्ञा- पनार्थमिति वाच्यम् । सकृत्कथनेन तत्ज्ञापनासम्भवादिति चेन्न । प्रयोजनान्तरसद्भावात् । तथाहि कर्मणि षष्ठीत्यनुक्तौ सामान्य तः षष्ठीदर्शनात्कर्तरि कर्मणि वेति सन्देहे प्रधानकर्तृकदर्शनमिति शङ्का स्यात्तन्निरासाय तथाभिधानम् । एतेन प्रधानदर्शनार्थं पुरुष- कैवल्पार्थं चेत्येव कुतो नोक्तामति परास्तम् । उक्तशङ्कासम्भवात् ।

 जगत्सर्जन प्रधानस्य प्रकाशानपेक्षणादाह-सर्वकारणस्ये- ति । तथाच बुद्धिभावापन्नस्य प्रकाशापेक्षास्तीति भावः । क्वचि- सर्वप्रकारस्येति पाठः । सच सुखाद्यात्मकानेकविकारसहितस्यत्ये-