पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
साक्षित्वादिसिद्धिः ।

एवं पुरुषबहुत्वं प्रसाध्य विवेकज्ञानापयोगितया तस्य धमनाह-


 तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
 कैवल्यम्माध्यस्थ्यं द्रष्ट्टत्वमकर्तुभावश्च ॥ १९ ॥

 

 “तस्माच्च' इति । च' शब्दः पुरुषस्य बहुत्वेन सह धर्मान्तराणि समुञ्चिनोति । 'विपर्यासादस्मात्' इत्युक्ते


न्मानसम्बन्धभेदव्यपदेशभ्यः इति सूत्रेण अततो ब्रह्मणोऽप- रमन्यत्किञ्चिदस्ति कुतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । सतुव्य- पदेशः ‘अथय आत्मा ससेतु'रिति सेतुशब्दोऽन्यस्य वस्तुनोऽस्ति- त्वं गमयति । उन्मानव्यपदेशश्च । 'तदेतद् ब्रह्मचतुष्पादष्टशफ षो- डशकलम् । उन्मितं परिछिन्नं काषपणादि ततोऽन्यद्वस्वस्तीति : सिद्धं । ततो ब्रह्मणोऽप्युन्मानन्वात्ततोऽन्येन वस्तुना भवितव्यम् । तथा सम्बन्धव्यपदेशोऽपि ‘सता सोम्य तदा सम्पन्नो भवती’त्यादि । सम्बन्धोऽप्यन्येनैव दृष्टस्तथात्रापि । भेदव्यपदेशश्च यथा एषोऽन्तरा- दित्ये हिरण्मयः पुरुषो दृश्यते' इत्यादिसाधारणमीश्वरं व्यपदिश्य ततो भेदेनाधारमीश्वरं व्यपादिशति । अथ एषोऽन्तरक्षणि पुरुषो दृश्यतं इत्यर्थकेनेश्वरात्परमन्यदस्तीत्याशङ्क्याह-सामान्यात्तु । तुशब्देन तुक्तशङ्कां निराकरोति । विधारकत्वसामान्यात्सेतुशब्द आत्मनि प्रयुक्तस्तत्फलं त्वद्वितीयत्वसिद्धिः । उन्मानव्यपदेशस्तू- पासनार्थं सम्बन्धभेदव्यपदशौ तूपाध्यपेक्षयेति । अधिकं तु भाष्ये स्पष्तमिति वदन्ति ।। १८ ।।

 अपसरसङ्गतिसूचनाय पूर्वोक्तमनुवदन्नुत्तरग्रन्थमवतारयति । एवमिति। धर्मानिति । त्रिगुणमित्यादिना सूचितान् साक्षित्वादीन् पञ्च धमनित्यर्थः । हेवन्तरेण समुञ्चायासमम्भवादाह-पुरुषस्थबहु- त्धेनेति । पाठक्रमादार्थक्रमो बलीयानितिन्यायेनाह-तत्रचेतन-