पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

नात्तदेव प्रकृतेऽप्यस्तु अन्यथा लक्षणापत्तरिति वाच्यम् । 'निकल मस्थूल'मित्यादिस्वरूपपरश्रुतिविरोधेन तदभावस्य सिद्धत्वात् ।

 नन्वेवमपि जगत्कारणे लक्षणापत्तिस्तदवस्थैवेति चेन्न । आकाशादौ परिमाणविशेषाश्रयत्वयोग्यघटपर्वतादिव्यावृत्तस्वरूपो- पचयाभावेन परिणामविशेषासंभवेन स्वरूपोपचयस्य तदर्थ- त्वात् । नचैवमप्याकाशविलक्षणस्वरूपोपचयस्य निर्वक्तुमशक्य- तयाऽऽकाशसदृशमेव ब्रह्म स्यात्तथाच ब्रह्मशब्दाभिधयमद्विती- यं ब्रह्म न स्यादिति वाच्यम् । युगपदनेकदेशनिरूपितयावत्स- म्बन्धाश्रययोग्यत्वस्याकाशादिविलक्षणस्य निर्वक्तुं शक्यत्वात् । आकाशादौ तु अनेकदेशनिरूपितयत्किञ्चित्सम्बन्धसत्वेऽपि तद्दे- शीयघटादिवृत्तिसम्बन्धस्यासम्भवात् । सर्वात्मकत्वे तु तस्यापि सम्भवात् । एवं 'तत्तुसमन्वया'दित्यादावपि बोध्यम् ।

 नचैवं भदव्यपदेशाच्चान्यः इत्यादिसूत्रविरोध इति वाच्यम् । तेषामौपाधिकभेदपरत्वात् । अन्यथा "यथा ह्ययं ज्योतिरात्मा विव- स्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपी देवः क्षेत्रष्वेवमञोऽयमात्मा ‘रूपं रूपं प्रतिरूपो वभूव’ यथैकमि घाटा- काशे वह्निधूमादिभिर्वृते । नच सर्वे प्रयुज्यन्ते एवं जीवो सु- खादिभिरित्यादिश्रुतिस्मृतिविरोधापत्तेः । एतेन यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ।' निरञ्जनः परमं साम्यमुपैति । सामान्यात्तु । इत्यादि- श्रुतिब्रह्ममीमांसासूत्राभ्यां मोक्षेऽपि भेदावगतिरिति परास्तम् । भे: दकस्यासम्भवेन परमसाम्यशब्दस्य तद्भिन्नत्वे सति तद्गतयावद्ध र्मवत्वपरत्वकथनासम्भवात् ।

 एतेन विशेषाद्भेदसिद्धिरिति परास्तम् । अन्योन्याश्रयाच्च भेदे सिद्धे तत्सिद्धिस्तत्सिद्धौ भेदसिद्धिरिति । सामान्यादित्यस्या न्यपरत्वेन जीवसाम्याप्रतिपादनात् । तथाहि-परमतः सेतु