त्रैगुण्यविपर्ययादित्यनन्तरोक्तं सम्बध्येत; अतस्तन्निरा-
साय ’तस्मात्' इत्युक्तम् । अनन्तरोतं हि सन्निधानादि-
दमो विषयो, विप्रकृष्टं च तदः, इति विप्रकृष्टो त्रिगुण-
मविवेकीत्यादि सम्बध्यते ।।
तस्मात्त्रिगुणादे विपर्यासः स पुरुषस्यात्रिगुणत्वं विचोकित्वं अविषयत्वं असाधारणत्वं चेतनत्वं अप्रसव- धर्मित्वञ्च । तत्र चेतनत्वेनाविषयत्वेन च साक्षित्वद्रष्ट्र- त्वे दर्शिते । चेतनो हि द्रष्टा भवति, नाचेतनः, साक्षी चे दर्शितविषयो भवति, यस्मै प्रदश्यते विषयः स साक्षी, तथा हि लोके ऽर्थि प्रत्यर्थिनौ विवादविषयं सा- क्षिणे दर्शयतः, प्रकृतिपि स्वचरितं विषयं पुरुषाय दर्श यतीति पुरुषः साक्षी, न चाचेतन विषयो वा शक्य विषयं दर्शयितुम् , इति चैतन्यादविषयत्वाञ्च भवति साक्षी । अत एव द्रष्टा ऽपि भवति ॥
अनैगुण्याञ्चास्य कैवल्यम् । आत्यन्तिको दुःखत्रया-
त्वेनेति । विषयत्वेनचेति । चः चेतनत्वं समुञ्चिनोति । सा- क्षित्वद्रष्ट्टत्वं इत्यत्र चाग्रहणन्तु प्रत्येकस्य समुञ्चितहेत्वन्वय सूचनाय। सामान्यनिरूपणाधीनत्वाद्विशेषनिरुपणस्येतिन्यायमाश्रित्योदेश्यक्रम विहाय प्रथमं द्रष्ट्टत्वमुपपादयति-चेतना हीति । नाचेतन इति अत्र विषय इति शेषः । साक्षित्वमाह-साक्षी वेति । साक्षित्वं च साक्षाद्द्रष्ट्टत्वं । अव्यबधानेन द्रष्ट्तत्वमिति यावत् । साक्षात्स- म्बन्धश्च बुद्धितद्धर्मणामवान्येषां तु तद्द्वारेति । अतो बुद्धितद्धर्मा- णां साक्षी पुरुषोऽन्येषान्तु द्रष्ट्टमात्रमिति शास्त्रीयविभागः । तत्सं- बन्धश्च प्रतिबिम्बरूप एव नतु संयोगमात्रमतिप्रसङ्गादिति ॥
अर्थिप्रत्यर्थिनौ उत्तमर्णाधमर्णौं । स्वचरितंस्वकार्य्यं । अत ए. वेति । यतः साक्षिरूपविशेषधर्मवानित्यर्थः । दुःखादेर्बुद्धिपरिणामत्वे-