पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
76
श्रीसरस्वतीविलासे

यथाऽऽह कात्यायनः--

"अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ" ॥

इति । पितामहस्तु--

पिता भ्राता सुहृच्चापि बन्धुस्संबन्धिनोऽपि वा ।
यदि कुर्युरुपस्थानं वादं तत्र प्रवर्तयेत् ॥

नियुक्तनिर्देशः.

"यः कश्चित्कारयेत्किञ्चित् नियोगाद्येन केनचित् ।
तत्तेनैव कृतं ज्ञेयमनिवर्त्यं हिं तत्स्मृतं" ॥

इति । एवं च अर्थिना वा तदीयेन पुरुषेण वा आवेदनं कार्यं नान्येनेत्यनुसन्धेयम् ।

पितृभ्रातृसुहृत्संबन्धिभिन्नानां नियुक्तकार्यकरणे दण्डः.

"यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यस्स्यात् व्यवहारेषु विब्रुवन्" ॥

इति नारदोक्तेः । कात्यायनस्तु विशेषमाह--

"दानकर्मकराश्शिष्या नियुक्ता बान्धवास्तथा ।
वादिनो न च दण्ड्यास्स्युः यस्ततोऽन्यस्स दण्डभाक्"

निवेदयितृविनयः अन्यथा दण्डः.

"सशस्त्रोऽनुत्तरीयश्च मुक्तकेशस्सहाशनः ।
वामहस्तेन वा स्रग्वी वदन् दण्डमवाप्नुयात्" ॥