आगमोऽर्थिवचनश्रवणमादौ कर्तव्यः । ततस्तद्वचनमृणादानाद्यन्यतमे पदेऽन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतो जयावधारणम् । एवमालोच्य राजा सभ्या वा व्यवहारनिर्णयं कुर्युः ।
"केन कस्मिन् कदा कस्मादेवं पृच्छेत् सभां गतः"
इति[१] मनुस्मृतिं कात्यायनो व्याचष्टे ।
"काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्य का च ते पीडा माभैषीर्ब्रूहि मानव ॥
इति ॥ किं कार्यमित्यनेन देयाप्रदानस्य ज्ञापनार्थः प्रश्नः । का च ते पीडेति हिंसायाः । एवं पृष्टः कार्यार्थी ततस्तस्मै वक्तव्यजातं विज्ञापयेत् ।
आवेदयितृप्रश्नप्रकारः.
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥
अनेन वाक्येन परकृतमुपद्रवं स्वयमावेदयेदित्यार्थिकोऽर्थः प्रतीयते । परैरिति बहुवचनमुपलक्षणम्, केनेत्यादिमनुवचने एकवचनान्तदर्शनानुरोधात् । चेच्छब्देन आवेदकस्य स्वरुच्यैवावेदनं कार्यम् । न तु राजाज्ञयेति ज्ञापितम् । आधर्षित इत्यनेन विवादे येषामधिकारस्तेऽप्युपलक्षिताः । न कर्तृमात्रमुक्तम् ।
- ↑ इदं वचनं मनुस्मृतौ नोपलभ्यते । 'स्मृत्यन्तरे च स्पष्टमेवोक्तम्' इति इदमेव वचनं विज्ञानयोगी निर्दिशति.