पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9go सरस्वतीकण्ठभरणं [अध्या० ३' मेधादीनेि श्रद्धा च तपसा सहतरेतरयोगे समस्यन्ते। द्वन्द्रध समासो भवति । मेधातपसी । दीक्षातपसी । श्रुततपसी । अध्ययनतपसी ! " श्रद्धातपसी tl YAN याज्याप्रवग्र्योलूखलान्यनुवाक्योपसन्मुसलंः ॥ २६ ॥ याज्यादीनि सुचन्तानि यथासङ्ख्यमनुवाक्यादिभिः सहेतरेतरयोगे समस्यन्त । द्वन्द्वश्व समासो भवति । याज्या च अनुवाक्या च याज्यानु वाक्ये। प्रवग्र्योपसदौ। उलूखलमुसलैी। - við हरिब्रह्मशिवस्कन्दपरित्रज्याद्या वासवप्रजापतिवश्र वष्णविशाखकौशिकादिभिः ॥ २७ ॥ हरिप्रभूतयो यथासड्ख्यं वासवादिभिः सहेतरेतरयोगे समस्यन्ते ! द्वन्द्वश्च समासेो भवति । हरिवासवौ । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ। परित्रज्याकौशिकौ । आदिशब्दः प्रकारे। तेन येपां लोके इतेरतरयोग एव समासो दृश्यते, तेपामेिह ग्रहर्ण भवति । सूर्याचन्द्रमसँौं । अझीपोमै । सोमारुन्नै । नारदपर्वतौ । शण्डामर्के । नरनारायणी । रामलक्ष्मणैौ । भीमार्जुनौ । कम्बलाश्वतरौ । मातापितरौ । मातापुत्राविति ॥ ' अधिकरणेताव त्वे ॥ २८ ॥ अधिकरणं वर्तिपदार्थः । स हि समासाथैस्याधारः । तस्यैतावत्वे परिमाणे गम्यमाने समाहारविपयेऽपीतरेतरयोग एव द्वन्द्वो भवति । उदगुः दश फठकालापाः । द्वादश पदकक्रमकाः । चतुर्दश दन्तोष्ट्राः । षोडशमादीङ्गेकपाणविकाः । अष्टादश रथिकाश्चारोहा इति ॥ समोपे वा ॥ २९ ॥ ' अधिकरणानामियतायाः समापे गम्यमाने समाहारविषये इतरेतरयोगे वा द्वंद्वो भवति । उपदशं पाणिपादम् । उपदशा: पाणिपादाः । उपवैिशति तक्षायस्कारम् । उपर्विशास्तक्षायस्काराः । अव्यय (स्य) सङ्खययाव्ययीभावेोऽपि विहितः कुहुव्रीहिरपि । तत्रैकल्वनपुंसकत्वानुरोधातू समा द्दारपक्षऽव्ययीभावः प्रयुज्यते । इतरेतरयेगपक्षे तु बह्वर्थो घहुव्रीहिरिति । सङ्ख्या त्रिंशत्यादिभिः सङ्ख्यायां समाहारे ॥ ३० ॥