पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ei सरस्वतीकण्ठामरणं [अध्या० ई. पाधीनामेव समासो यथा स्यादित्येवमर्थम् । तेन पश्च भुक्तवन्तो अस्येत्यन्यपदार्थमात्रे न भवति ॥ कर्तृकर्मप्रवचनमप्रथमायाः ॥ १४ ॥ अमत्वर्थार्थोऽयमारम्भः । कर्तृकर्मप्रवचनं चानेकं समानाधिकरणं सुघन्तमप्रथमान्तस्यान्यस्य पदस्यार्थ समस्यते । वहुत्रीहिब्ध समासी भवति। कर्तुप्रवचनम्-आरूढो वानरो ये स आरूढवानरो वृक्षः। प्राता अतिथयो यं प्राप्तातिथिर्ग्रमः । कुपितः प्रभुरस्मै कुपितप्रभुर्भृत्यः । भीताः शत्रवेो यस्माद् भीतशत्रुर्नृपः । कर्मप्रवचनम् - ऊढेो रथोऽनेन ऊढरथोऽनड्वान् । भिक्षितभिक्षो यतिः ! उपहृतः पशुरसैमै उपहृतपशू रुद्रः । उद्धृत ओदनेोऽस्या उद्धृतैौदना स्थाली । अनेकमित्यनुवृत्तेरिहापि भवति । अारूढबहुवानरो वृक्षः । ऊढवाहुरथोऽनड्वान् । कर्तृकर्मयचनात् सुराजन्वती भूमिरनेन, प्राम् ग्रामोऽस्मादित्यादौ न भवति । अप्रथमाया इति किम् । वृष्टे देवे गतः । इह कस्मान् भवति -- वृष्टे देवे गतं पश्य । घहिरङ्गत्वाक्ष प्रथमा ! वचनमित्येव सिद्धे प्रशब्दोपादानं बहिःक्रियापेक्षेऽपि कर्तृकर्मत्वे यथा स्यात् । तेन (तः परो यस्माच्छ्र v“. यत) तपरः । हल् पूर्वोऽस्माच्छूयते हलपूर्व इत्याद्यपि सिद्ध भवति । दिङ्नामान्यन्तराले ॥ १५ ॥ दिशा नामानि दिङ्नामानि । तानि सुचन्तान्यन्तराले वाच्ये सगस्यन्ते । पूहुव्रीहिश्च समासेो भवति । दक्षिणस्याश्च पूर्वस्याश्च दिशेथैदन्तरालै सा दक्षिणपूर्वी । (पूर्वोत)रा । उत्तरपश्चिमा । दक्षिणपश्चिमा । 'सर्वनाम्नां वृत्तिमात्र' इति पुंवद्भावः । कथं पश्चिमदक्षिणा पश्चिमोत्तरेति कर्मधारयोऽयम्• बहुव्रीही हि सर्वनाम्नः पूर्वेनिपाती भवति । यद्येवं दक्षिणपूर्वेत्यादावपि कर्मधारयेणैव सिद्वम् । सत्यम् । (एवं) सति दक्षिणपूर्वौयै दक्षिणपूर्वस्यै इति पाक्षिकस्याभावेो वहुव्रीद्दिस्वरश्च न सिध्यति । ननु च यथा दक्षिणपूर्वायै (टु ? गु)ग्धायै इत्यन्यपदार्थे समासस्तथान्तरालेऽपि भविष्यति । न सिध्यति । तत्र दे प्रथमान्ते पgययें