पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Vte R. हृदयहारिण्याक्ष्यया वृत्त्या समेतम् } ፭ ዒ गेहगोष्टौ सप्तम्यन्ताववधारणे साति क्षेपे गम्यमाने शूरादिभिः सुबन्तैः सहैकार्थीभावे समस्येते । तत्पुरुघश्च समासो भवति । गेद्द एव शूरः गेहेशूरः । गोष्ठेशप्रः ! गेह एव क्ष्वेडतीत्येवंशीलः गेहेक्ष्वेडीं ! गोष्ठेक्ष्वेडी । एर्व गेहेनदीं । गीछेनदीं । गेह एव विजितमनेन गेहेविजिती । गोष्ठेविजिती ] इष्टादित्वादिनिः । ‘क्तस्येन्विपयस्य कर्मणी'ति सप्तमी । गेहेव्याडः । गीछेव्याडः । गेहेपटुः । गोष्ठेपटुः। गेहेपाण्डितः । गीछेपण्डितः । गेहेप्रगल्भः । गोप्टेप्रगल्भः । न चान्यसमास इत्येव । परमी गेद्देशरः ॥ उदुम्बरः कृमिमशकाभ्यामुपमायाम् ॥ ६८ ।। उदुम्बरः सप्तम्यन्तः कृमेिमशकाभ्यां सुबन्ताभ्यां सहोपमायां सत्यां क्षेपे गम्यमाने समस्यते । तत्पुरुषश्च समासो भवति । (उदुम्घरे कृमिः उदुम्बरकृमिः । उदुम्बरे मशकः उदुम्बरमशकः) ॥ अवटकूपौ कच्छपमण्डूकाम्याम ॥ ६९ ॥ (अवटकूौं ससम्यन्ती कच्छपमण्डूकाम्यां सुचन्ताभ्यांसह उपमायां सत्यां क्षेपे गम्यमाने) समस्येते । तत्पुरुपश्च समासो भवति'। अवटकच्छपः । कूपमण्डूकः । अल्पदृश्धोच्यते ॥ नगर काकादिभिः । ७० ॥ नगरमित्येतत् सप्तम्यन्तं काकादिभिः सुबन्तैः सहोपमायां क्षेपे समस्यते । तत्पुरुषश्च समासो भवति । नगरकाकः । नगरवायसः । नगरश्चा । एतैः सदृशी धृष्ट उच्यते ॥ गेहेमेहिपिण्डीशूरी निरीहतायाम् ॥ ७१ ॥ गेहेमेहि पिण्डीशर इथेतो ससमीतत्पुरुयौं निरीहतायाँ क्षेपे गम्यमाने साधू भवतः । गेहेमेही । पिण्डशिरः । य आवश्यकार्थमपि घहिर्न निर्गच्छति भीजन एव संरम्भते स एवमुच्यते । पितरिश्रमातरिपुरुपौ क्षियायाम् ॥ ७२ ॥ पितरिश्शूर मातरिपुरुष इत्येतैौ सप्तमीतत्युरुषैौ क्षयायां साधूं भवतः । पितरिश्रः ! मातरिपुरुषः ! यः सदाचारं भिनत्ति स एवमुच्यते । 崧