पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/64

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く सरस्वतीकण्ठाभरणं भिध्या० ३० स्वर्यसामी तेन ॥ ३६ ॥ स्वर्य सामेिं इत्येंते अव्यये (तेन) सुवन्तेन सहैकार्थीभावे वा समस्येते । तत्पुरुषश्च समासो भवति । स्वयमित्येतदात्मनेत्यस्यार्थे वर्तते | सामील्यर्धपर्यायः । स्वयंधौतौ पादौ । स्वयंविलीनमाज्यम् । सामिकृतम् । सामिमुक्तम् । द्वितीयाधिकारेऽप्येतयेोरेव योग्यत्वात् सुचित्येतदेवाभिसम्यध्यते ॥ खट्वा क्षेपे ॥ ३७ ॥ खट्वेत्येतद् द्वितीयान्तं क्षेपे गम्यमाने तान्तेन सुपा सहैकार्थीभावे वा समस्यते । तत्पुरुपश्च समासो भवति। खदवारूढो जाल्मः। उत्पथप्रस्थित इत्यर्थः । विकल्पाधिकरेऽपि नित्यसमास इत्येव । नहि वाक्येन क्षेपो गम्यते ॥ कलाः ॥ ३८ ॥ कालबाचिनः शब्दा द्वितीयान्ताः स्कान्तेन सहैकार्थीभावे वा समस्यन्ते । तत्पुरुषश्च समासेो भवति । अनत्यन्तसंयोगार्थ अारम्भः । पएमुहूर्ताश्चराचरास्ते कदाचिदहर्गच्छन्ति, कदाचिद् रात्रिप्र् । अहतिसृताः । अहस्सङ्क्रान्ताः ! मासप्रमितः प्रतिपदश्चन्द्रमाः । मासं प्रमातु" मारब्धवानित्यर्थः । अत्यन्तसंयोगे ॥ ३९ ॥ कालवाचि द्वितीयान्र्त सुचन्तमत्यन्तसंयोगे सुबन्तेन सहैकार्थीभावे वा समस्यते ! तत्पुरुषश्च समासो भवति ! मुहूर्तं सुखं मुहूर्तसुखम् । सवैरात्रकल्याणी । अत्यन्तसंयोगे इति किम् । मासं पूरको व्रजति । तृतीया तत्कृतेन गुणवचनेन ॥ ४० ॥ तृतीयान्तुं सुबन्तं तृतीयान्तार्थकृतगुणवाचिना सुबन्तेन सईकार्थीभावे वा समस्यते । तत्पुरुषश्च समासो भवति । शङ्कुलया खण्डः &IgEलाखण्डः । किरिणीं कप्पः किरकाणः । तत्कृतेनेतेि किम् । अक्ष्णा काः । गुणवचनेनेतेि किम् । गोमिर्वपावान् । दध्ना पटुः । गुणमुक्तवान्