पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/62

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኳጻ सरस्वतीकण्ठाभरणं [अध्या० है. प्रनष्टा मृगा अस्मिन् । प्रकृता दक्षिणा अस्मिन् । प्राह्नम्। निपातनादह्वादेशः । प्ररथं, प्रमृगं, प्रदक्षिणं वर्तते । कालभावयोरेवायमन्यपदार्थ इष्यते । तेन प्रगता मृगा अस्मात् प्रमृगो देश इत्यपि भवति । पूर्वपदार्थप्राधान्ये तु प्रणाशेो मृगाणां प्रमृगामिति पूर्वेणैव भवति । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव भवति । प्राह्णः । प्रारयः । प्रमृगः । प्रदक्षिणः ॥ सम्प्रत्यसम्प्रत्यप्रदक्षिणानि वर्तमानावर्तमानवामेषु॥ २८ ॥ सम्प्रत्यादीनि शब्दरूपाणि वर्तमानादेष्वर्थेषु साधूने भवति । सम्प्रति इदानीमित्यथैः । तदभावः असम्भ्रति । अप्रदक्षिणं वामम् । सम्प्रतिप्रदक्षिणाभ्यां नन्समसेन सिद्धे पुनर्निपातनं 'नचान्यसमास' इत्येतदिहाप्यनुवर्त्तत इति दर्शयति l तेन लनयवादीनामप्यन्येन सह समासो भवति॥ , , , पारेमध्येऽग्रेऽन्तः पष्ठ्या वा ॥ २९ ॥ पोरेप्रभृतीनि सुचन्तानि पठयन्तेन सहकार्थीभावे वा समस्यन्ते। अव्ययीभावश्य समासो भवति । तत्सक्षियोगेन चाद्याना त्रयाणागेकारान्तस्वं निपात्यते । वेति वर्तमाने पुनर्वांवचनमेकार्थीभावेऽपेि विकल्पार्श्वम् । तेन पठीसमासोऽपि पक्षे भवति। पूर्वेण तु वावचनेन वा पक्ष वाक्य भवतीति प्रदर्श्यते । पारं गङ्गायाः पारेगङ्गम् । गङ्गायाः पार गङ्गापारम् । मध्यं गङ्गाया मध्येगङ्गम् । गङ्गामध्यम् । अग्रं वनस्य अग्रेवणम् वनाग्रं गिरेरन्तः अन्तर्गिरम् । अन्तर्गिरेि । · . - सङ्ख्या वैश्येन ॥ ३० ॥ विद्यया जन्मना वा प्राणिनामकलक्षणसन्तानो वंशस्तत्र भवो वंश्यः तद्वाचिना सुधन्तेन सह सङ्रयावचेि सुचन्तमेकार्यभावे वा समस्यते। अव्यंगीभावश्च समासो भवति । द्वौ मुनीं व्याकरणस्य वंश्यैौ द्विमुि प्याकरणत्य । निमुनि व्याकरणस्य । यदा तु विद्यया सह तद्वतामभेदाविवक्षा, तदा द्विमुनि व्याकरणं, निमुनि व्याकरणामिति भवति ॥ नदीभिः समाहारे ॥ ३१ ॥