पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/46

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o सरस्वीकण्ठाभरणं ' Io . कलाध्वस्य कारकमध्ये सप्तमी च ॥ ११२ ॥ कारकयोर्मध्ये यौ कालाध्वानो ताम्या सप्तमीधैभक्तिश्यकारात् पश्चमीविभक्तिब्ध भवति ! अद्य भुवत्वा देवदत्तो महे भोक्ता यहाद भोक्ता । कर्तृशक्तियोर्मध्ये कालः ! इहस्थोऽयमिष्वास क्रोशे लक्षं विध्यति क्रोशाल्लक्षं विध्यति । कर्तृकर्मणोः, कर्मापादानयोः, कर्माधिकरणयोर्वा मध्येऽध्वा । ननु च द्यहे पूर्णे भुङ्गे, क्रोशे स्यितं लक्षं विध्यतीत्यधिकरण सप्तमी । (ब्द्यहात्) द्यद्दमतिक्रभ्य भुङ्के, क्रोशान्निस्सृत्य स्यितं लक्षं विध्यतील्यपादान एव पञ्चमी सिद्धेते नार्थः सूत्रारम्भेण । सत्यम् । यदा त्वस्यैव क्रियावाचकसम्बन्धस्य फलभूताशेपसम्बन्धलक्षणान्तरावस्या “ सैी भुझे योजनस्य गृह्यातीति तदापि कारकमध्ये पट्टी मा भूदिति सूत्रभरभ्यते ॥ हिंतीयात्यन्तसंयोगे ॥ २१३ ॥ क्रियागुणद्रव्यैः कालाध्वनोः कात्स्न्येन सम्धन्धोsत्यन्तसंयोगः | तत्र क्रियासम्प्रन्धन कमैणीत्येव सिद्धा l गुणद्रव्याभ्यां स्वत्यन्तसंयोगे कालादध्वनन्धानेन द्वितीयाविभतिर्भवति । मासमधीते । मासं कल्याणी। मासं गुडधानाः । (क्रोशमधीते ! ) क्रोशं कुटिला नदी ! योजनं पर्वतः । अत्यन्तसंयोग इति किए । (मासस्य द्विरधीते । ) मासस्यैकरात्रं कल्याणी। मासस्य गुडधानाः । (क्रोशत्य द्वैिरधीते ) क्रोशस्यैकदेशे कुटिला । योजनस्यैकदेशे पर्वतः ॥ अपवर्गे तृतीया ॥ २१४ ॥ फलप्राप्तौ सत्यां क्रियायाः परिसमाप्तिरपवर्गः | तस्मिन् गम्यमाने कालादध्वनश्धात्यन्तसंयोगे तृतीयाविभक्तिर्भवति । मासेनानुवाकोऽधुतः । क्रोशेनानुवाकोऽधीतः । अपवर्गे इतेि किंग् । मासमधीतोऽनुवाको, न चानेन शृद्दीतः । मासादेव्याप्यमानतैव न साधकतमस्वमिति करणत्वं न भवति ॥