पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/288

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ret सरस्वतीकण्ठभरणं [अध्या० ४. हितं भक्ष्यं तदस्मै ॥ १२४ ॥ तदिति प्रयमान्तादस्मै इति चतुर्थ्यर्थे ठक्प्रत्ययो भवति ! यतत् प्रथमान्तं हितं भक्ष्यं चेत् तद् भवति । अपूपं हित भक्ष्यमस्य अपूपिकः I शाप्कुलिकः । मैौदकिकः । गैौडधानिकः । तदित्यनुवर्तमाने पुनस्तद्ग्रहणं पूर्वयोगयोर्वेिशिष्टात् प्रथमान्तादपपाठ एव प्रत्ययोत्पत्तिरित ज्ञापयति । तेन दुःखमध्ययने वृत्तमस्य पराजयोऽध्ययने वृतमस्येत्यार्दी न भवतेि !! दीयते नियुक्तम् ॥ १२५ ।। तदिति प्रथमान्ताद् दीयत इत्यर्थे ठक्प्रत्ययो भवति ! यत्तत् प्रथ • मासमर्थ तवेनियागतो दातव्यं भवति। अग्रभेजने नियोगती दीयते अस्मै अग्रभोजनिकः । अापूपिकः । शाष्कुलिकः । मौदकिकः ॥ श्राणामांसमांसौदनौदनेभ्यटिकन् ॥ १२६ ॥ श्राणादिभ्यस्तस्मै नियुक्त दीयते इत्यर्थ टिकन्प्रत्ययो भवति । श्राणा नियोगती दयतेऽस्मै श्राणिकः पथ्याशी । मांस नियुक्तमेभ्यो दीयते श्रादे मांसिकाः पितरः । मांसौदनोऽस्मै नियुक्तो दीयते मांसौदनिको मल्लः । ओदनोऽस्मै नियुक्तेो दीयते ओदनिकोऽतिथिः ।। टकारो डीबर्थः । श्राणिकी । मांसिकी । मांसौदनिकी । औदनिकी। श्राणादिभ्यष्ठकैव सिद्धे टिकन्करणं स्वरार्थम् ॥ भक्तादणुश् च ॥ १२७ ॥ भक्तात् तदस्मै नियुक्तं दीयते इत्यर्थेऽण्प्रत्ययश्चकारात् ठक् च भवति । भाक्तः । माक्तिकः ॥ तत्र नियुक्तः ॥ १२८ ॥ तत्रेति ससम्यन्तान्नियुक्त इत्यर्थे ठक्रप्रत्ययो भवति । शुल्कशालायां नियुक्तः शैल्कशालिक । आकारक । आपणिकः । दौवारिक: । अगारान्ताट्ठन् ।। १२९ ।। तत्र नियुक्त इत्ययें ठ(कन)प्रत्ययो भवति । (दै? दे)वागारिकः । भण्डागारिकः । अदेशकालादधीते ॥ १३० ॥ '&nारान्तादू' कि पाठ ।