पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/270

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቔዩ8 सरस्वतीकण्ठभरर्ण [अध्या० ४. ऽनुदात्तादित्वेनाञि गवेधुकाशव्दात् कोपधत्वेनाणि प्राप्तेऽपि पुनस्तयोविंधानात्। श्यामाकशब्दात् वृद्धात् पूर्वविप्रतिपेथेन । तदुत पुरस्तादतेभ्यो मयण्मा भूदिति ॥ निल्यमेकाचः ॥१४ ॥ एकाचः प्रातिपदिकात् यथासम्भवं विकारेऽवयवे चार्थे नित्यं मयदझत्ययो भवति । वाङ्मयम् ! त्वङ्मयम् ! सृङ्मयम् । मृन्मयम् ॥ गोः पुरीपे ॥ १५ ॥ मेोशब्दात् पुरीपेऽर्थे मयट्प्रत्ययो भवति । गोः पुरीषं गोमयम् ! पुंरीप इति किम् ! गव्यं पयः । गब्यं साक्थ । 'गोरपि यद्। इति यदेव भवति । ननु च विकारावयवाविह प्रकृती । पुरीपें गोर्न विकारो नावयवैः । एवमेतत् । किन्तु दोषधातुमलमूलं शरीरमिति विवक्षायां तात्स्थ्यात् तद्वदुपचार इति गोः पुरीप पृयश्च विकारो भवति !! छे ॥ १६ ॥ छावपये प्रातिपदिकात् विकारावयवयोर्नेिल्यं मयट्रप्रत्ययो भवति । सलमयम् । अम्रमयम्॥ शरदर्भतृणकुटीसेोमबल्बजेभ्यः ॥ १७ ॥ शरदर्भीदिभ्यो विकारेऽवयवे चार्थे नित्यं मयट्प्रत्ययो भवति । शरमयम् । दर्भमयम् ॥ तृणमयम् । कुटीमयम् । सोममयम् । घल्बजमयम् । न्रीहेः पुरोडाशे ॥ १८ ॥ त्रीहिशब्दात् पुरोडाशे विकोर निल्यं मयट्झत्ययो भवति । पिल्याद्यणोऽपवादः । प्रीहिमयः पुरोडाशः । पुरोडाश इति किम् । नैह् ओदनः मैही यवागू: {। तिलयवाभ्यामसंज्ञायाम्।। 1॥ १९ ॥ तिल यव इत्येताभ्यामसंज्ञायां विकारावयवयोर्निर्य भयप्रत्ययों भवति ! तिलमयम् । यवमयम् । असंज्ञायामिति किम् | तैलम् । यावकः ॥