पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/268

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सरस्वतीकण्ठभरण [अध्या० ४. ककारोपधात् तस्य विकारः अवयव इत्येतयोरर्थयोरण्प्रत्ययो भवति । अञोऽनन्तरस्यापवादः । माधूकः । तैत्तिडीकः । दार्दुरूकः । कार्कवम् । न्यङ्गु, नैयङ्कवम् ॥ उवर्णन्तानुदात्तादिप्राणिभ्योऽञ् ॥ ६ ॥ उवर्णान्तादनुदात्ताद. प्राणिवाचिनश्च पठयन्तात् तस्य विकारोऽवयव इत्यथैयोरञ्प्रत्यये भवति । दैवदारवं काण्डम् । दैवदारवं भस्म ! एव भाद्रदारवम् । आरटवम् । कपित्र्थ काण्डम् । कपित्र्थ भस्म । एवं दाधित्थम् । माहित्थम् । कापोतं मांसम् । कापोतं सक्थि ! एवं तैत्तिरम् । मायूरम् ॥ रजतसौसर्कसलोहोदुम्बरवीधदारुपीतदारुविभीतकरोहितकत्रिकण्टककण्टकारिभ्यश्ध ॥ ७ ॥ रजतादिभ्यश्च षष्ठ्यन्तेभ्यस्तस्य विकारोऽवयव इत्यथैर्योोरञ् प्रत्ययो भवति । रजतस्य विकारः अवयवो वा राजतः । सैसः । कंसः } लैौहः । औदुम्बरः । वैध्रदारवः । पैतदारवः । वैभीतकः ! रौहितकः । त्रैकण्टक । काण्टकार(क?) : । ननु च विभीतकलोहितकत्रेिकण्टकेश्यः कोपधत्वात्, सीसलोहाभ्यामाद्युदात्तत्वादाणे प्रासे अञ् विधीयताम् । रज तदिभ्यस्त्वनुदात्तादित्वात् उवर्णान्तत्वाच्च प्राप्त एव किमर्थं विधीयते । 'मयड वेतयेर्भपायामभक्षाच्छादनयोः' इति मयड्रविकल्प वक्ष्यतेि ! स एतेभ्यो मा भूदिति | तालादण् धनुषि ॥ ८ ॥ तालशब्दादू धनुष्यभिधेयेऽण्प्रत्ययो भवति । वृद्धलक्षणस्य म* यष्टोऽपवादः । तालस्य विकारस्ताल धनुः । धनुपीति किम् । तालमर्थं कण्डम् । इन्द्रादालसादिसायुधेभ्यः ॥ ९ ॥ १- 'टेि' ख ग पf5.