पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/260

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ՀԿ8 सरस्वतीकण्ठाभरणं [अध्या० ४. पाराशर्ये शिलालि इत्येताभ्यां तेन प्रेोक्तं भिक्षुसूत्रं (नटसूत्रं च) विदन्त्यधीयते वेत्यनयेारर्थयोर्णिनिप्रत्ययो भवति । पाराशयेंण प्रोत भिक्षुसूत्रं विदन्त्यधीयते वा पाराशरिणो भिक्षवः । शिलालिना प्रोक्तं नटसूत्रं विदन्त्यधीयते वा शैलालिनो नटाः । पुराणर्षेर्ब्राह्मणम् ॥ २३७ ।। पुराण(र्षैि)वाचिनस्तेन प्रेोक्तं ब्राह्मणं वेत्यधीते वेल्येतयोरर्थयोर्णिनिप्रत्ययो भवति । शाव्यायनेन प्रेोत ब्राह्मर्ण विदन्त्यधीयते वा शा ठ्यायनिनः ! ऐतरेयिणः । भाल्लविनः ! पुराणग्रहणं किम् । याज्ञवल्क्येन ओक्तानि ब्राह्मणानि याज्ञवल्क्यानि । शकलादिपाठातू अणू ॥ कल्पे ॥ २३८ ॥ योगविभागाद् वेत्यधीते इति निवृत्तम् । तेन प्रेत्तमिति वर्तते । पुराणपिंवाचिभ्यस्तेन प्रोतमित्येतस्मिन्नर्थों कल्पेऽभिधेये णिनिप्रत्ययो भva ❖ድኳ S. A يط" بي वति । पिङ्गेन प्रोक्त, पेङ्गी कल्पः । आरुणपराजी । येऽपि पैङ्गेिर्ने कल्पं विदन्त्यधीयते वा तेऽपि पैङ्गिनः । अारुणपराजिनः । प्रेोक्ताल्लुगुक्त एव । पुरणपॅरिति केिमू । आश्मरथः कल्पः ॥ अथर्वणोऽण् वेदे ॥ २३९ || अथर्वणस्तेन प्रोक्तमित्येतस्मिन्नर्थे वेदेऽभिधेयेऽण्प्रत्ययो भवति । अथर्वणा प्रोक्तम् अायवैणो वेदः ॥ लुक् च वा ॥ २४० ॥ अथर्व(ण् १३)शब्दात् तेन प्रोक्तमित्यर्थे वेदेऽभिधेयेऽण्प्रत्ययस्य लुक् च वा भवति । अथर्वणा प्रोक्तो वेदः अथर्वा ! वाग्रहणमुत्तरार्थम् ॥ वसिष्ठादिभ्योऽनुवाकादिषु ।। २४१ ॥ वसिष्ठादिभ्यस्तेन प्रोक्तमित्यस्मिन्नर्थे अनुवाकादिप्वभिधेयेयूत्पन्न स्याणादेर्लेग् (वा) भवति । वसिष्ठेन प्रोक्तोऽनुवाकेोऽध्यायो वा वसिष्ठः वासिष्ठः । विश्चामित्रः वैश्चामित्रः ॥