पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/246

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፯ዩ 3 सरस्वतीकण्ठभरणं [अध्या० ४ आनुवैश्यम् । आनुसीलयम्। आनुतिल्यम्। आनुयव्यम् । आनुभङ्ग्यम् । अनुमाष्यम् ॥ पर्युपार्जुभ्यः सीरात् ॥ १६० ॥ पर्यादिभ्यः परो यः सीरशब्दस्तदन्तादव्ययीभाववृत्तैस्तत्र भव इत्यर्थ व्यप्रत्ययो भवति । पारिसीर्यन् । औपर्सार्यम्। आनुसीर्यप् । अन्तःपूर्वपदाङ् ॥ १६१ ॥ अन्तःपूर्वपदं यत् प्रतिपदिकमव्ययीभाववृतेि ततस्तत्र भव इत्यथें ठञ्प्रत्ययो भवति । अन्तर्गहे भवमान्तर्गेहिकम् । आन्तरगारिकम् । आन्तवैश्मिकम् । अव्ययीभावादिति किम् । अन्तःकरणे भव अन्तःकरणः । पर्यनुभ्यां ग्रामात ॥ १६२ ॥ परिपूर्वीदनुपूर्वाच ग्रामशब्दात् तत्र भव इत्यस्मिन्नर्थ ठञ्प्रत्ययो भवति। पारिग्रामिकः । आनुग्रामेिकः । अव्ययीभाव इत्येव । परिगती ग्रामः परिग्रामः तत्र भवः परिग्रामः ॥ समानात ॥ १६३ ॥ समानशन्दात् तत्र भय इत्येतास्मिन्नर्थे ठन्प्रत्ययो भवति । समानेपु भवः सामानिकः ॥ तदादेः ॥ १६४ ॥ समानशव्दादेस्तत्र भव इत्यस्मिन्नर्थे ठञ्प्रत्ययो भवति । सामानग्रामेिकः । सामानदेशकः ॥ लोकान्तात ॥ १६५ ॥ लोकान्तान् प्रातिपदिकात् तत्र मय इत्यर्थे ठअप्रत्ययो भयतेि । ऐद्दलैौकिकम् । पारलौफ्रिकम् । 'इहाराग्यां लोफस्य' इत्युत्तरपदवृद्धिः ॥

    • ኖffኟ: •