पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/244

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጻ8 c सरस्वतीकण्ठभरणं [अध्या० ४. दिग्वर्गपूगगणोखामुखजघनवंशानुवंशदेर्शकालाकाशपक्षसाक्षिभ्यो यत् ।। १४८ ॥ दिगादिग्यस्तत्र भव इत्येतास्मिन्नर्ये यत्प्रत्ययो भवति । दिक्षु भवो दिग्यः । वाग्र्यः । पूयः । गण्यः । उख्यः । मुख्यः । जघन्यः ! वंश्यः । अनुवंश्यः । मुखजघनवंशानामदेहार्थः पाठः । देश्यः । काल्यः ! अाकाश्यः ! पक्ष्यः । साक्ष्यः । अाद्यन्तान्तररहःपथ्यलीकयूथन्यायमित्रमेघमेधाधाय्यद्भयश्च ॥ १४९ ॥ * अद्यादिभ्यश्च तत्र भव इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । अाद्यः अन्त्यः । अन्तर्यः । रह्मः । पथ्यः । अलीकयः । यूथ्य' न्याय्यः ! मित्र्यः । मेध्यः । मेध्यः । धार्येः । अप्सव्यः । 'अपो योनियन्मतुपु' इते सप्तम्या अलुक् । उदकात् संज्ञायाम् ॥ १५१० ॥ उदकशब्दात् संज्ञायां तत्र भव इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । उदक्या रजखला स्त्री । संज्ञायामिति किए । औदको मत्स्यः ।। । देर्हेशात् ॥ १५१ ॥ शरीरावयववाचिनस्तत्र भव इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । दन्त्यम् । कण्ठयम् । ओष्ठयम । तालव्यस् ! मुख्यम् । मूर्धन्यम् इति । 'अभावकर्मणोरनो य' इति नलेपाभावः ॥ दृतिकुक्षिकलशिवस्त्यस्त्यहिभ्यो ढञ् ॥ १५२ ॥ इत्यादिभ्यस्तत्र भव इत्येतस्मिन्नर्ये ढञ्प्रत्ययो भवति ! दार्त्तयः । कक्षेयः । कालशेयम् । वास्तेयम् । अास्तेयम् । श्राहेयम् ॥ ग्रीवातोऽणु च ॥ १५३ ॥ ग्रीवाशब्दात् तन्न भव इत्यर्थेऽण्प्रत्ययश्चकारात् ढञ्ज्ञ च भवति । ग्रीवासु भवं ग्रैव ग्रैवेयम् । ग्रीवाशब्दो धमनीवचनस्तासां घहुत्वात् बहुवचनान्तो भवति । SS S BBBDS gS gSSSSS SSSSDD S DDS S