पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፻ጻ सरस्वतीकण्ठमरण [अध्या० ३. विमतैौ ॥ ९५ ॥ विमतिननामतिः । तस्यां विषयेऽकर्मैकाद् वदेः कर्तर्यात्मनेपदानि भवन्ति । क्षेत्रे विवदन्त । भिन्नमतयः क्षेत्रॆ विवादं कुर्वन्तीत्यर्थः ॥ व्यक्तवाचां सहोक्तैौ ॥ ९६ ॥ व्यक्तवाचेो मनुष्यादयः । तेषां सद्दोक्तौ वर्तमानाद् वदतः कर्तर्यात्मनेपदानि भवन्ति । सम्श्रवदन्ते ग्राम्याः शकुनयः ! व्यक्तवाचामिति किन् । वरतनु! सम्प्रवदन्ति कुक्कुटाः' । सहोक्ताविति किए । एवं वदन्ति ब्रह्मणाः । तयोर्वी ॥ ९७ ॥ तयोर्विमतिसहोक्त्योर्युगपद्विवक्षायां वदेः कर्तर्यात्मनेपदानि वा भवन्ति । विश्रवदन्ते मौहूर्त्तिकाः । विश्रवदन्ति मौहूर्त्तिकाः ! युगपत् परस्परप्रतिपेघेन विरुद्वं वदन्तीत्यर्थः । व्यक्तवाचामित्येव । प्रतिवदन्ति श्यानः । सहोताविति किम् । एकैकशो विप्रवदन्ति मौहूर्ताः ॥ अवाद् गि(रः ? रतेः) ॥ ९८ ॥ अवपूर्वीदू गिरतेः कर्तयाँत्मनेपदानि भवन्ति । अवगिरते l अवादिति किम् । गिरति { 'fगरतेः' इति निर्देशाद् गृणातेर्न भवति । अवगृणाति । समः प्रतिज्ञायाम् ॥ ९९ ॥ सम्पूर्वीद् गिरतेः प्रतिज्ञायामर्थे कर्तर्यात्मनेपदानि भवन्ति । नित्यं शब्दं संगिरते । प्रतिजानीत इत्यथैः ! प्रतिज्ञायामिति किम् । सरिति भासम्। 1l सृजः श्रद्धावति ॥ १०० ॥ सृजतर्धातोः श्रद्धावति कर्तर्यात्मनेपदानि भवान्ति ॥ सृज्यते मालां घार्मिकः । असर्जि मालां धार्मिकः । श्रद्धावतीति किम् । सृजति मालां t{fềā: Îi उदश्वर: सकर्मकातू॥ १०१ ॥ उत्पूवीच्चस्तेः सकर्मकात् कतैयौत्मनेपदानि भवन्ति । गुरुवचनमुद्रते । व्युत्क्रग्य गच्छतात्पर्धः । सकर्मकादिति किए । भूप उश्चरति ॥