पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/149

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा १.} हृदयहारिण्याख्यया वृत्त्या समेतम् । R यदयत्यं तत्र तञ्च भेदेन विधेः प्रसङ्गे नियमोऽयं क्रियते ! सर्व एव हि पूर्वजा व्यवहितेनापि पुनामि नरके न पतन्ति इत्याग्रकृतीनां सर्वमपत्य भवति । उपगोरपत्यमैोपगवः । तस्याप्यौपगवः । देवदत्तस्यापत्यं दैवदत्तिः । तस्यापि दैवदत्तिः । गर्गस्यापत्यं गाग्र्यः । तस्यापि गाग्र्य इत्यादिषु (च ? प)रमप्र(कृ)तिवाचिनोऽणादयो भवन्ति, न तु यथास्वं जनकात् । पौत्रादेरस्त्रियां गुर्वायत्ते ॥ २४ ॥ पित्रादिर्घइयो ज्यायान् आता अन्योsपि वा सपिण्ड स्थविरतरो गुरुः । पौत्रादेरपत्याद् गुर्वायते स्रीवर्जितेऽपत्ये अणादर्यो भवन्ति I गर्गस्यापत्यं पौत्राद्भिर्गाग्र्यः । तस्यापत्यं गाग्र्यायणः गुर्वायतश्चेत् । भख्रियामिति किम् । गार्गी । गुरुग्रहणादन्यायत्ते गाग्र्यः ! अायत्तग्रहणाद् येो गुरी सत्यपि स्वतन्त्रो व्यवहरति स कुत्सायाँ गाग्र्यः } कथ गाग्र्यायणे जाल्मः । पदान्तरसामानाधिकरण्यादव कुत्सा ! यतुं गुराक्सत्यपि तददिपृष्माचरति, स मृतस्यापि गुरौस्तदोदिष्टाचरणादायत एवेति प्रशंसार्थ गाग्यीयणः । असगोत्रगुवायत्तेऽपि प्रशंसास्पदत्वात् गाग्र्यायण एव । मृतस्तु न कस्यचिदायत्त इति गाग्र्य इत्युच्यते । पूर्वं गुर्वायत्त इति गाग्र्यायणव्यपदेशेऽपि न दोषः । सर्वथा गाग्र्यशब्दी विशेपविवक्षायामपरिहार्यः ||ll अत इञ् ॥ २५ ॥ तस्यापत्यमित्येव ) अकारान्तात् प्रातिपदिकादपत्यमात्रे इ-प्रत्ययो भवति ! अणोऽपवादः । दक्षस्य अपत्यं दक्षिः । लक्षिः । तपरकरणं किम् । कीलालया भाह्मणी इत्य(तो) मा भूत । कर्थ 'प्रदीयतां दाशरथाय मैथिली' इति । शेषविवक्षायामण भविष्यति । प्रागाणेो विदादिभ्यः शेपे ॥ २६ ॥ शिवादिभ्योऽण् विधास्यते । ततः प्राग् यत्रार्थे प्रत्यया विहितास्ततोऽन्यत्र शेपेऽपत्ये विदादिभ्यः शिवादिगणात् प्रागुक्तेभ्य इञ्प्रत्ययो भवति । धदस्यापत्यं पैदिः । और्विः । गर्गस्यापत्यं गार्गिः । वात्सिः । अश्वस्यापत्यभश्चिः । शाह्निः ! फुञ्जस्यपलं कौञ्जिः ! ब्रार्ध्निः । नङ्घस्यापत्यं नाडिः ।