पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/102

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• Q, • सरस्वतीकण्ठाभरणं अध्या5 ३•' क्षीरेति । प्रायेणेति किम् । अदूरदशा अधिकदशा इति पूर्वपदार्थप्रधानः । द्विदशाः त्रिदशा इत्युत्तरपदार्थप्रधानोऽपि भवति ॥ उभयपदार्थप्रधानो इन्डः ॥ ५२ ॥ योऽयं चार्ये युगपदधिकरणवचनतायां द्वन्द्व उत्तः, स उमयपदार्थप्रधान एव भवति । प्लक्षन्यग्रेोधैं । धवखदिरौं । धवखदिरपलाशाः धवखदिरपलाशमिति ll कर्मधारये प्रधानोपसर्जनानां परम्परं विप्रतिषेधे [ዘ ዒኛ ll कर्मधारयसमासाधिकारे प्रधानानां प्रधानमुपसर्जनानां तूपसर्जनं विप्रतिषेधे सति यद्यत् परं तत्तद् भवति ! विप्रतिपेधश्च तुल्यबलयोरम्यत्र सावकाशयेरेकत्र युगपत्प्रसङ्गे संज्ञायते । ‘वृन्दारकनागकुञ्जरादिभिः पूज्यमानमि’त्यस्यावकाशः गोनागः अश्धनागः । ‘पोटायुवतिस्तोकादिभेिजातिरि’त्यस्यावकाशः इम्ययुवतिः अर्ययुवतिः । इहोभयं प्राप्नोति---नागयुवतिः । परत्वात् पोटायुवतिस्तोकेत्यादि । उपसर्जनानामुपसर्जनम् । ‘सन्महत्परमोत्तमोत्कृष्टपुमांसः पूज्यमानैरि’त्यस्यावकाशः सद्भवः महापुरुषः । ‘कृत्यतुल्यास्यान्यजात्ये'त्यस्यावकाशः तुल्यश्वेतः तुल्यपद्मः । इहोभर्य प्राप्नेति-तुल्पमहान् । परत्वात् 'कृत्यतुल्याख्यान्यजात्ये'- त्येतद् भवति । 'विप्रतिषेधे परं कार्यमि’त्यनेनैव सिद्धे वचनं पूर्वविप्रतिषेधोऽस्तीति ज्ञापनार्यम् । तेन काकोलूकमित्यादौ ‘नित्यवैरा' इत्यनेन फ्रोऽपि शकुनेिविकल्पी घाध्यत इत्याद्युपपत्रं भवतेि ॥ ` मत्वथयिार्थकर्मधारयाद् बहुत्रीहिः ॥ ५४ ॥ मत्वर्थीयः स्यादित्येवमर्थं यः कूर्मधारयस्तं याधत्वा चहुव्रीहिभैवति । चित्रा गावोऽस्य सन्ति चित्रगुर्देवदत्तः । चित्रगर्वीमानिति । भवति । बहयो ब्राह्मण्या अस्मिन् देशे सन्ति बहुत्राह्मणको देशः । ប្ត ब्राह्मणवार्निति न भवति । ठौकिके प्रयोगे गुरुलाघवानादरात पर्यायेणीभयोः प्रसङ्गे. नियमार्थं वचनम् ॥