पृष्ठम्:समासचक्रम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृशं उदरं यस्याः सा कृशोदरी ॥ चारू स्तनौ यस्याः सा चारूस्तनी ॥ इंदीवरे इव अक्षिणी यस्याः सा इंदीवराक्षी ॥ कंबुरिवकंठो यस्याः सा कंबुकंठी ॥ कुटिला केशाः यस्याः सा कुटिलकेशी ॥इतरेषां अंगादिवाचकानां स्त्रीत्वेऽपि आबंतत्वमेव ॥ चारुदेहा विस्तृतालका आवृतकुचा कुंददशनेत्यादि । उरुपृथुलघुबहुपटुऋजुस्वादुचारुमृदुशब्दानां स्त्रीलिंगविशेषणत्वे ईबंतत्वमपि ॥ यथा ॥ मृद्वी शाटी लध्वी भाषेत्यादि॥ इति द्विपदबहुव्रीहिः ॥ बहुपदो यथा ॥ अधिक उन्नतःअंसो यस्य सः अधिकोन्नतांसः ॥ सहपूर्वपदो यथा ॥ सह कृष्णेन वर्तत इति सकृष्णः ॥ सह पुत्रेण वर्तत इति सपुत्रः ॥ रामेण सह वर्तत इति सरामः ॥ संख्योत्तरपदो यथा ॥ दशा