पृष्ठम्:समासचक्रम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नां समीपे ये संति ते उपदशाः ॥ संख्योभयपदो यथा ॥ द्वौ वा त्रयो वा द्वित्राः ॥ व्यतिहारलक्षणो यथा ॥ केशेषुकेशेषु गृहीत्वा इदं युद्धं प्रवर्तत इति केशाकेशि युद्धम् ॥ दंडै दंडैः कृत्वा इदं युद्धं प्रवर्तत इति दंडादंडियुद्धं । दिगंतराललक्षणो यथा ॥ दक्षिणस्याःपूर्वस्याश्च दिशोर्यदंतरालं सा दक्षिणपूर्वा ॥ इति बहुव्रीहिः ॥


अथ द्विगुः ॥ द्विगुसमासो द्विविधः एकवद्भावी अनेकवद्भावी चेति ॥ एकवद्भावी द्विगुर्यथा ॥ त्रयाणां शृंगाणां समाहारस्त्रिशंगम् ॥ पंचानां फलानां समाहारः पंचफली ॥ अनेकवद्भावी द्विगुर्यथा ॥ सप्त च ते ऋषयश्च सप्तर्षयः ॥


अथ द्वंद्वः ॥ द्वंद्वोऽपि द्विविधः इतरेतरसमाहारभेदात् ॥ इतरेतरद्वंदो यथा ॥ प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ ॥ रामश्च कृष्णश्च रामकृष्णौ ॥ समाहार