पृष्ठम्:समासचक्रम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वंदो यथा ॥ हरिश्च हरश्च गुरुश्च एषां समाहारः हरिहरगुरुः ॥ प्राणितूर्यसेनांगानां द्वंद्वैकवद्भावः ॥ प्राण्यंगे यथा ॥ पाणी च पादौ च मुखं च पाणिपादमुखम् ॥ तूयाँगे यथा ॥ मार्दंगिकश्च वैणविकश्च मादगिकवैणविकम् ॥ शंखश्च पटहश्च शंखपटहम् ॥ सेनांगे यथा ॥ राजन्याश्च रथाश्च अश्वाश्च राजन्यरथाश्वम् ॥ इति द्वंद्वः ॥


अथाव्ययीभावः ॥ स यथा ॥ तटं तटं प्रत्यनुतटम् ॥ गिरिंगिरिं प्रत्यनुगिरि ॥ क्रममनतिक्रम्य वर्तत इति यथाक्रमम् ॥ वेलायामित्यधिवेलम् ॥ कुंभस्य समीपे वर्तत इत्युपकुंभम् ॥ मक्षिकाणामभावो निर्मक्षिकम् ॥ हिमस्य अत्ययः अतिहिमम् ॥ अव्ययीभावस्याव्ययत्वात्त्रिषु लिंगेषु समानं रूपम् ॥ इति षट्समासा निर्णीताः ॥


अथ