पृष्ठम्:समासचक्रम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लुक्समासोऽलुक्समासश्च ॥ लुक्समासो यथा ॥ तनुरेव लता तनुलता ॥ कृष्णा एव मेघाः कृष्णमेघाः ॥अलुक्समासो यथा ॥ वने चरतीति वनेचरः ॥ पंके रोहतीति पंकेरुहम् ॥ मत्वर्थीयादयो यथा ॥ बुद्धिरस्यास्तीति बुद्धिमान् ॥ धनमस्यास्तीति धनवान् ॥ धीरस्य भावो धीरता ॥ जनानां समूहो जनता ॥ घटस्य भावो घटत्वम् ॥

वृक्षशाखा तत्पुरुषः श्वेताश्वः कर्मधारयः ।
रक्तवस्त्रो बहुव्रीहिर्द्वन्द्वश्चंद्रदिवाकरौ ॥ १ ॥
यल्लिंगं यद्वचनं या च विभक्तिर्विशेष्यस्य ।
तल्लिंगं तद्ववचनं सैव विभक्तिर्विशेषणस्यापि ॥ २ ॥
सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ३ ॥
आदौ कर्तृपदं वाच्यं द्वितीयादिपदं ततः ।
क्त्वातुमुनल्यप् च मध्ये तु कुर्यादन्ते क्रियापदम् ॥ ४ ॥