पृष्ठम्:समासचक्रम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ कारकमुच्यते॥
कर्ता कर्म च करणं संप्रदानं तथैव च ।
अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ ५ ॥
निर्देशे प्रथमा प्रोक्ता सैव चामंत्रणेष्वपि ।
द्वितीया कर्मणि प्रोक्ता तृतीया कर्तृकरणयोः ॥ ६ ॥
ज्ञानज्ञाप्येंऽगविकारे हेतावपि च इष्यते ।
तादर्थ्यं संप्रदाने च चतुर्थी स्याच्च सर्वदा ॥ ७ ॥
हेत्वपादानयोः पंचमी षष्ठी तु कर्तृकर्मसंबंधे ।
अधिकरणनिमित्ते सति सप्तमी स्याच्च विषयेऽपि ॥ ८ ॥
यदा कर्तरि प्रथमा स्यात्कर्मणि द्वितीया तदा ॥
यदा कर्तरि तृतीया स्यात्कर्मणि प्रथमा तदा ॥ ९ ॥
विशेषणं पुरस्कृत्य विशेष्यं तदनंतरम् ।
कर्तृकर्मक्रियायुक्तमेतदन्वयलक्षणम् ॥ १० ॥
प्रथमांतस्तृतीयांतः षष्ठ्यंतः कर्ता ।