पृष्ठम्:समासचक्रम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूपः ॥ निर्जितः कामो येन सः निर्जितकामः शिवः ॥ विभक्तं धनं यैस्ते विभक्तधनाः बंधवः॥ दत्तः सूपो यस्मै सः दत्तसूपो ब्राह्मणः ॥ उद्धृतं धनं यस्मात्तत् उद्धृतधनं कुंडम् ॥ चक्रं पाणौ यस्य सः चक्रपाणिः हरिः । करस्थितं धनं यस्य सःकरस्थितधनो वणिक् ॥ पुष्पिताः द्रुमाः यस्मिन् सः पुष्पितद्रुम आरामः ॥ बहवो यज्वानो यस्यां सा बहुयज्वा शाला ॥ पुष्पिताःद्रुमाः यस्मिन् तत् पुष्पितद्रुमं वनम् ॥ खरस्य मुखमिव मुखं यस्य सः खरमुखस्तुरगः ॥ उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखो यक्षः ॥ उच्चैर्घटो यस्याः सा उच्चैर्घटा नारी ॥ अंगगात्रोदरस्तनकंठौष्ठदंतमुखाक्षिकेशाः स्त्रियां बहुव्रीहौ ईबंता भवंति ॥ ते च यथा ॥ सुंदरं अंगं यस्याः सा सुंदरांगी ॥ शोभनं गात्रं यस्याः सा सुगात्री ॥