पृष्ठम्:समासचक्रम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दः कर्मधारयो यथा ॥ पुरुषःव्याघ्र इव पुरुषव्याघ्रः नरः सिंह इव नरसिंहः ॥ ५ ॥ संभावनापूर्वपदः कर्मधारयो यथा॥ गुणः इति बुद्धिः गुणबुद्धिः ॥ ६ ॥ अवधारणापूर्वपदः कर्मधारयो यथा ॥ विद्यैव धनं विद्याधनम् ॥ अविद्यैव शृंखला अविद्याशृंखला॥ ७ ॥ मध्यमपदलोपी समासो यथा ॥ शाकप्रियः पार्थिवः शाकपार्थिवः ॥ देवपूजको ब्राह्मणः देवब्राह्मणः ॥ इति कर्मधारयः ॥


अथ बहुव्रीहिः कथ्यते ॥ सच द्विपदो बहुपदः सहपूर्वपदः संख्योत्तरपदः संख्योभयपदो व्यतिहारलक्षणो दिगंतराललक्षणश्चेति भेदात्सप्तविधः ॥ तत्र द्विपदबहुव्रीहिर्यथा ॥ चित्राः गावो यस्य सः चित्रगुः गोपः ॥ प्राप्तं उदकं यं सः प्राप्तोदको ग्रामः ॥ भुक्तं ओदनं येन सः भुक्तौदनो