पृष्ठम्:समासचक्रम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

णपूर्वपदः कर्मधारयो यथा ॥ कृष्णश्चासौसर्पश्च कृष्णसर्पः ॥ कृष्णौ च तौ सर्पौ च कृष्णसर्पौ ॥ कृष्णाश्च ते साश्च कृष्णसर्पाः । रक्ता चासौ लता च रक्तलता ॥ रक्ते च ते लते च रक्तलते ॥ रक्ताश्चताः लताश्च रक्तलताः ॥ नीलं च तत् उत्पलं च नीलोत्पलम् ॥ नीले च ते उत्पले च नीलोत्पले ॥ नीलानि च तानि उत्पलानि च नीलोत्पलानि ॥ १ ॥ विशेष्यपूर्वपदः कर्मधारयो यथा ॥ वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः ॥ गोपालश्चासौ बालश्च गोपालबालः ॥ २ ॥ विशेषणोभयपदः कर्मधारयो यथा ॥ शीतं च तत् उष्णं च शीतोष्णम् ॥३॥ उपमानपूर्वपदः कर्मधारयो यथा ॥ मेघ इव श्यामो मेघश्यामः कंबुवत् ग्रीवा कंबुग्रीवा ॥ चंद्रवत् मुखं चंद्रमुखम् ॥ ४ ॥ उपमानोत्तरप