पृष्ठम्:समासचक्रम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पंचमीतत्पुरुषो यथा ॥ अर्थात् अपेतःअर्थापेतः ॥ सिंहात् भयं सिंहभयम् ॥ वृश्चिकात् भीः वृश्चिकभीः ॥ ५ ॥षष्ठीतत्पुरुषो यथा ॥ कृष्णस्य भक्तः कृष्णभक्तः ॥ आम्रस्य फलं आम्रफलम् ॥राज्ञः पुरुषो राजपुरुषः ॥ ॥६॥ सप्तमीतत्पुरुषो यथा ॥ अक्षेषु शौंडः अक्षशौंडः ॥ कर्मणि कुशलः कर्मकुशलः ॥ विद्यायां निपुणः विद्यानिपुणः ॥ ७॥ नञ्तत्पुरुषो यथा ॥ न ब्राह्मणः अब्राह्मणः ॥ न वृषभः अवृषभः ॥ पापाभावः अपापम् ॥ धर्मविरुद्धोऽधर्मः ॥ ८ ॥ इति तत्पुरुषः ॥


अथ कर्मधारयः कथ्यते ॥ स च विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमानपूर्वपदउपमानोत्तरपदः संभावनापूर्वपदोऽवधारणापूर्वपदश्चेति भेदात्सप्तविधः ॥ तत्र विशेष