पृष्ठम्:समासचक्रम्.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विगुकर्मधारयौ तत्पुरुषभेदौ ॥ समासार्थावबोधकं वाक्यं विग्रह इति ॥


तत्राष्टधा तत्पुरुषक्रमः ॥ प्रथमातत्पुरुषो द्वितीयातत्पुरुषस्तृतीयातत्पुरुषश्चतुर्थीतत्पुरुषः पंचमीतत्पुरुषः षष्ठीतत्पुरुषः सप्तमीतत्पुरुषो नञ्तत्पुरुषश्चेति ॥ तत्र प्रथमातत्पुरुषो यथा ॥ अर्ध पिप्पल्याः अर्थपिप्पली । पूर्वं कायस्येति पूर्वकायः॥ १॥ द्वितीयातत्पुरुषो यथा॥ कृष्णं श्रितः कृष्णश्रितः ॥ ग्रामं गतोग्रामगतः ॥ कांतारमतीतः कांतारातीतः ॥ २ ॥ तृतीयातत्पुरुषो यथा ॥ शंकुलया खंडः शंकुलाखंडः धान्येनार्थों धान्यार्थः ॥ मासेन पूर्वो मासपूर्वः ॥ ३ ॥ चतुर्थीतत्पुरुषो यथा ॥ यूपाय दारु यूपदारु ॥ कुंडलाय हिरण्यं कुंडलहिरण्यम् गुरवे दक्षिणा गुरुदक्षिणा ॥ ४ ॥