पृष्ठम्:समासचक्रम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ बालबोधार्थं प्रयोगविधिः कथ्यते । प्रयोगाः पंचविधाः । सकर्मकोऽकर्मकः कर्मणि भावे द्विकर्मकश्चेति भेदात् ॥ सकर्मकप्रयोगो यथा ॥ कृष्णो भक्तान् रक्षति ॥ १ ॥ अकर्मकप्रयोगो यथा ॥ कृष्णस्तिष्ठति ॥ २ ॥कर्मणिप्रयोगो यथा ॥ विष्णुना प्रपंचः क्रियते ॥ ३ ॥ भावे प्रयोगो यथा ॥ कृष्णेन स्थीयते ॥ ४ ॥द्विकर्मकप्रयोगो यथा ॥ यो धरामनं दुदोह ॥ ५ ॥ इति प्रयोगविधिः ॥

अथ समासविधिः कथ्यते ॥ समासाः षड्विधाः तत्पुरुषः कर्मधारयो बहुव्रीहिर्द्विगुर्द्वन्द्वोऽव्ययीभावश्चेति भेदात् ॥ तल्लक्षणानि तु ॥ पूर्वपदार्थप्रधानोऽव्ययीभावः ॥ उत्तरपदार्थप्रधानस्तत्पुरुषः ॥ उभयपदार्थप्रधानो द्वंद्वः ॥ अन्यपदार्थप्रधानो बहुव्रीहिः ॥