पृष्ठम्:समयमातृका.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
काव्यमाला।

कुचकाञ्चनकलशवती नितम्बसिंहासना स्मितच्छत्रा।
एकपुरुषोपसेव्या नूनं त्वं रतिरमणराज्यश्रीः ॥ ११३ ॥
भुक्तं मयास्य वित्तं दाक्षिण्यमिति प्रनष्टविभवेऽपि ।
मा. त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्तिकरम् ।। ११४ ॥
दासी दासी तावद्यावत्पुरुषस्य किंचिदस्ति करे।
क्षीणधनपुण्यराशेर्दुष्प्रापा स्वर्गनगरीव ॥ ११५ ॥
ह्यो दत्त्वार्थ कथमिव गच्छाम्यद्येति निवसते प्रायम्
कः कुरुते वेश्यानां तत्क्षणधनदानभोग्यानाम् ॥ ११६ ॥
इति कङ्कवदननिर्गतवचनशरैर्दारितो वणिक्तनयः ।
निश्चेष्टः क्षणमभवद्वैलक्ष्याद्वीक्ष्यमाणः माम् ॥ १.१७ ।।
अथ शूलबन्धुनिधनव्यसनाद्यङ्गप्रसङ्गकथनाद्यैः ।
शय्याविहारमकरोत्कलावती शङ्खतनयस्य ।। ११८ ॥
अद्य व्रतनियमो मे दुःस्वप्ननिरीक्षणात्परं मातुः ।
षष्ठीप्रजागरेऽद्य च राजकुले तत्र मे शय्या ।। ११९ ॥
अद्य वयस्यासूनोश्चूडाकरणं मृगाङ्कदत्तस्य ।
इत्यादिभिरपदेशैः सा प्रययौ कामिनां भवनम् ॥ १२० ।।
त्वरिता ततः प्रभाते कदाचिदभ्येत्य कम्पविकलाङ्गी ।
कङ्काली शङ्खसुतं जगाद भयसंभ्रमार्तेव ।। १२१ ।।
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किंचिदविभाव्यम्
अस्मत्कृतेऽद्य यूनोः सपत्नकलहे वधो वृत्तः ॥ १२२
नगरपतिर्विषमतरः कलावती मित्रमन्दिरं पाता।
त्वं तु वणिक्सुत साधुर्धनगन्धे धावति क्ष्मापः ॥ १२३ ॥
तूलपटीं त्यज पृष्टाद्गृहाण तूस्तीं (४) घरट्टमालातः ।
को जानीते वर्मनि किं कुरुते कः परिज्ञाय ।। १२४ ॥
इत्युक्त कङ्काल्या मिथ्यैव विशल्यवेश्मकरणाय ।
कृत्वा तदुक्तमखिलं पङ्कः प्रययौ कुमार्गेणः ॥ १२५ ॥