सामग्री पर जाएँ

पृष्ठम्:समयमातृका.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः
५५
समयमातृका ।

मासादधिकायातं दिनद्वयं पुष्पदर्शनस्नाने ।
अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥ १० ॥
यौवनविभ्रमशापस्तनुनलिनीतुहिननिकरधनपतिः ।
प्रसंवदिनं नारीणां पातकमुग्रं स्तनयुगस्यः ॥ १० ॥
प्रसवह्रतयौवनानामधोमुखे लज्जयेव कुचयुगले।
भवति न पश्यवधूनां विक्रयचर्चा तृणेनापि ॥ १०२ ।।
स्थविरत्वे पुरुषाणां भवन्ति सुखजीविकाः परिज्ञानैः ।
यौवननाशे वेश्या यदि परमटति स्फुटं भिक्षाम् ॥ १.०३ ।।
तस्माज्जलकामावादावेकलमापत्स्यमाननिज विभवम् ।
अधिकरणपत्रलिखितं प्रयच्छ सुमते कलावत्यै ॥ १४ ॥
इत्युक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्तनयः ।
आपत्स्यमानमखिलं प्रददौ ह्रष्टं कलावत्यैः ।। १०६ ।।
अथ शिथिलादरया[स] द्वित्रैर्दिवसैः समेत्य कङ्काल्या ।
कृतसंकेतः कङ्कः 'श्रुत्यै कलावतीमूचे ॥ १७६ ]
अयि रागदग्घह्रदये कलावति व्रतवतीव कस्य त्वम् ।
एष त्वामर्थयते ठक्कुरपुत्रो रणविलासः ।। १.०७ !!
देवगृहगादिविरस्तव सततप्रार्थनानुबन्धेन ।
पदमुक्तिधन्यकाले गणयति चण्डं मकरगुप्तः ॥ १८ ॥
अद्यापि महामात्यः सत्यरथस्त्वत्कुते समर्घदिने ।
प्रहिणोति वस्त्रयुगलं न च प्रसादस्त्वयास्य कृतः ॥ १०९ ।।
प्रेक्षणके त्वां दृष्ट्वा साहसराजेन राजपुत्रेण ।
त्वद्गत(स)रभसमनसा वासवसेनावरुद्धिका त्यक्ता ॥ ११० ।।
विरजसि वयामि नवेऽस्मिन्नेक श्चेदीप्सितस्तव स्वामी ।
तत्किं यौवनभङ्गे ददाति कश्चिद्धनं मुग्धे ।। १११ ।।
चाभिर्यौवनसमये रागेण धनार्जनं परित्यक्तम् ।
ता एताः पर्यन्ते भस्माङ्ग्यश्रीवरिण्यश्च ।। ११२ ॥

समायदिन' इति पार