पृष्ठम्:समयमातृका.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः]
४७
समयमातृका

शिशुतररमणेऽस्याः कौसमामोदलुभ्य-
द्भमरभरनिपातैचूर्णमानाः प्रकामम्
प्रसरदगुरुधूमश्यामलाग्रा बभूवु-
र्वलितविरतवका लज्जयेव प्रदीपाः ।। ४९ ॥

श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समयः

अष्टमः-समयः।


अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी
प्राभातिकसलिललवस्वेदवती क्षामता प्रययौ ॥ १ ॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥ २ ॥
शृणु मातः शिशुवयमस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुलं मरिचकणस्येव तीक्ष्णत्वम् ।। ३ ।।
आरोपितः स चेट्या खट्वामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुहूर्तं धूर्तः स च कृतकसुप्तोऽभूत् ॥ ४
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया
तत्क्षणनवसुस्तान्ते सहसा निश्चेष्टतां प्रययौ ।। ५ ।।
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलार्द्रम्
दत्त्वा वक्षास हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ।। ६ ।।
लब्धास्वादः स ततश्चटकरतिर्मा प्रजागरो मूर्त:
खेदक्लान्तामकरोद्गणनातीतैः समारोहैः ॥ ७ ॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम् ।
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन ॥ ८ ॥
रोदिति शिशुरिति दयया यस्य न दशलक्षतं मया दत्तम् ।
तेन ममाघरबिम्बं पश्य शुकेनेव खण्डितं बहुशः
मुहुरारोहणहेलापरिरम्भैर्वामनीकृतं तेन ।
शिशुसंगमात्क्षणं मे लज्जितमिव नोन्ननाम कुचथुगलम् ।। १५ ।।