पृष्ठम्:समयमातृका.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
काव्यमाला ।

सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देहक्षयस्थायी वार्यमाणोऽपि निश्चलः ॥ २२ ॥
सौवर्णश्छेदनिर्घर्षतापस्तुल्यरुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्रसंज्ञस्य नान्यथा ॥ २३॥
रोतिनाम्नस्तु मालिन्यं स्नेहेनाप्युपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥ २४ ॥
तीक्ष्णस्वभावाछोहत्य काठिन्याचे न नम्रता
मणिनामा च निर्व्याणः महजस्वच्छनिश्चलः ॥ २५ ॥
खमावभिदुरः काचसज्ञश्छलनिरीक्षकः ।
शैलोऽपि गौरवस्थायी हृदयाभावनीरसः ॥ २६ ॥
सांव्यश्चलच नित्यश्च कल्पदोषो दशाश्रयः
चन्द्ररागः प्रशान्तातिशीतलः क्षयवृद्धिमाकू ॥ २७
ऐन्द्रायुधो.बहुरुचिर्यक्रमायाविासभूः । ॐ
वैद्युतस्तरलारम्भद्दष्टनष्टविकारकत् ॥ २८ ॥
अङ्गारः स्त्रीजनावज्ञाज्वलितो लोहिताननः
केतुसंज्ञः स्फुटानर्थकारी बन्धवषादिभिः ॥ २९॥
आर्करतीक्ष्णतया नित्यसंतापः सततोदयः ।
मित्रक्षयैषी विषमो राहुरागो महाग्रहः ॥ २० ॥
श्रौत्रः कर्णेमुखास्यासाद्गुणोकर्णनतत्परः ।
अक्षिजन्मा पर रूपमात्रे परिणतरगृहः ॥ ३१॥
रासनो विविधात्त्वादमोज्यसहारलौल्यवान् ।
स्वन्मयः सर्वमुत्सृज्य सर्वाः ॥ २२ ॥
प्राणाख्यः पुष्पेधूंपादिभूरिसौरभलोभभृत् ।
मानसः सततास्वस्तस्टहामात्रमनोरथः ॥ ३३ ॥
बुद्ध्वाख्यो गुणवत्कान्तासक्तिव्यसनवर्णितः ।
अन्तराभित्रः अध्यसर्गमोहविलक्षणः ।। ३४ ॥