पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- । 1 सत्यापादविरचितं श्रौतसूत्रं- [१०दशमप्रश्न- प्रसिद्धपदार्थकत्वं वचनव्यक्तिविपर्यासश्चैवं स्यात् । नचैतन्न्याय्यम् | अध्व दिश- ब्दानां तु प्रसिद्ध्यमावाद्य एवाध्यवसायादेव होतृत्वाध्वर्युत्वादिभिः ऋतुस्वामिपरिक- पितास्त एव होत्रध्वर्वादय इति । तस्मात्प्रसिद्धावयवत्वात्संख्याश्रुतेश्च यजनविशेष- निमित्तक एवर्विक्शब्द इति । एवं च चमसाध्वर्युष्वतिप्रसङ्ग इत्येतद्वारितं भवति । विस्तरस्त्वाकरे द्रष्टव्यः । एतत्सर्वमाह तृतीयाध्याये सप्तमे पादे जैमिनिः-कर्मकार्या- सर्वेषामृत्विक्त्वमविशेषादिति न परिसंख्यानादिति च । यद्यप्यध्वर्युसूत्रार्थस्तु अविशे- घात् , न विद्यते विशेषो यत्र तदविशेष तस्मात् । इदं च कर्मकार्यादित्येतस्य विशे- पणम् । कर्मकार्यात्कर्मकरस्य मावः कर्मकार्य तस्मात्कर्मकर्तृत्वात् । अविशेषात्तुल्या- कर्मकार्यात्सर्वेषां चमसाध्वर्युसहितानामृत्विक्त्वमिति पूर्वसूत्रार्थः । न चमाध्वर्युष्वृ. त्विक्त्वं ब्रह्मादिगतस्विक्त्ववन्नास्ति सप्तदशसंख्यापरिसंख्यानादिति उत्तरसूत्रार्थः। उद्गी- थमुदायतीत्युद्गाता, इत्याद्याः कर्मनिमित्ताः संज्ञाः । ब्रह्मादिषु तु कर्मणो वृहणात् , अवेक्षणेन बन्धनान्नियमादिति यावत् । स ब्रह्मेत्यादिव्युत्पत्त्या ब्रह्मादयोऽपि होताऽ. ध्वरं युनक्तीध्वर्युः, अग्निर्देवानावहति अग्निमग्न आवह सोममायहेत्येवमग्निना देवाना- वाहयतीति, अध्वरं युनतीत्यत्र कत्रन्तरसद्भावे सति यावद्भिर्यत्र प्रयोगकार्य निर्व. त्यते तत्र तावन्त इति कार्यतः कर्तृणां परिमाणं स्यात् , न त्वेतावन्त इति नियमो विशेषानवगमादिति सूत्रार्थः । वरणकाले कर्मनिमित्तत्वासंभवेन वरणनिमित्तत्वमेव वक्तव्यम् । न कस्मिन्पुरुषे बहूनि वरणानि समवयन्ति दृष्टार्थत्वात् । नहि वृतस्य वरणं दृष्टार्थम् । तेन वरणानां तन्निमित्तानां च संज्ञानामसंकीर्णविषयत्वाद्यावद्धरणं यावत्संज्ञं च कर्तृभेदः कर्माङ्गम् । एतत्सर्व तृतीयाध्याये सप्तमे पादे जैमिनिराह तत्राास्कर्तृपरिमाणं स्यादनियमोऽविशेषादिति । अतस्तावत्संख्यैः कर्तृभिज्योतिष्टोम. निर्वृत्तिः । एतेनैकस्यैव पुंसः पाचकलावकवत्कर्म कुर्वतः संज्ञेति निरस्तं प्रवृत्तिसमये तदुत्तरकालं चैतासां संज्ञानां श्रवणाभावात् । वरणं ह्या प्रवृत्ताभ्यर्थनं तच्च सत्रेऽर्थलोपा- निवर्तते । वरणाभावेऽपि अध्वर्युगृहपति दोक्षयित्वेत्यादिव्यवहारस्तु दृश्यते । स च संकल्पनिमित्तत्वस्वीकारं विनाऽनुपपन्न एवेत्यवश्यं संकल्पनिमित्तत्वं स्वीकार्यमेव । प्रकृतावपि हि संकल्पो निमित्तमेव । यो हि वियमाणो नेच्छति न स होत्रध्वर्यादि- मवति । तस्मात्प्रकृतौ वरणविधानात्तन्मिश्रः संकल्प एवं निमित्तम् । सत्रेषु तु सेक- ल्पमात्र तत्राध्वर्वादिशब्दप्रयोगदर्शनात् । नचैवं वैरूप्यादशोभनमिति मन्तव्यम् । प्रमाणवलादीदृशस्यैव शोभनत्वात् । नहि सत्रे होत्रध्वर्यादिशब्दानां गौणत्वे किंचि- प्रमाणमस्ति । अथाप्यत्यन्तमैकरूप्येण भाव्यमित्याग्रहस्ततः संकल्प एव निमित्तं य एव क्रतुपक्रमे तदोपपिक होत्रध्वर्वादिभावमात्मनः संकल्पयति स एष होत्रध्वर्या- १.क. यमनादि।