पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । ] दिशब्दैरुच्यते । तथा च वक्ष्यति कर्मकार्यात्सर्वेषामृस्विक्त्वमित्यधिकरणे पार्तिककारः सत्रेषु स्वयंकर्तृकत्वावरणभरणयोरनपक्षितयोरग्रहणाद्विनैव ताभ्यामवैगुण्यमिति । तत्रः योग्यतामात्रेण होतृत्वाध्वर्युत्वादिसिद्धिः । तत्र जैमिनिसूत्राणां मध्ये पूर्वसूत्रमारक- तृपरिमाणं स्यादनियमोऽविशेषादिति कृतं मध्ये कानिचिदन्यानि सूत्राणि कृत्वाऽन न्तरं कर्मकार्यात्सर्वेषामृत्विक्वमविशेषादिति सूत्रं कृतम् । अत्रविक्शब्दो मुरूपस्त्रि. पर एव । षोडशानामेवानिमसूत्रे परिगणनात् । पक्षे सप्तदशस्य सदस्यस्यापि परि- गणनेम तस्यापि मुख्यविकत्वात्तत्परोऽपि । नच चमसाध्वऍणामपि समन्त्रकवरणसत्त्वा- न्मुख्यमेवत्विक्त्वमस्त्विति वाच्यम् । चमसाध्वर्यणां नित्योपयुक्तत्वेन तत्सहितानामेव संख्यया ग्रहणे कर्तव्ये षोडशसंख्योपादानस्य विरुद्धत्वापत्तेः । एवं पाक्षिकसप्तदश- संख्योपादानस्यापि । अत एव प्रसिद्धावयवत्वासंख्याश्रुतेभर्तुयजनविशेषनिमित्तक एक- पिशब्द इति मीमांसकैः सिद्धान्तितम् । समन्त्रक वरणं तु पूर्ववरणाभावेऽपि पाच निकमदृष्टार्थम् । स्वतन्त्रवरणस्य विहितत्वादिदमप्यवगम्यत ऋत्विग्म्यो मिन्ना एक चमसाध्वयंव इति । तथा च तृतीयाध्याये सप्तमे पादे जैमिनिः-चमसाध्वर्यवश्व तेव्यपदेशादिति । चमसाध्वर्यवश्व भिन्ना मध्यतःकारिणां चमसाध्वर्यवो होत्र- काणां चमसाध्वयंव इत्य॒स्विभिः सह भेदव्यपदेशादिति सूत्रार्थः । मन्त्रलिङ्गादव. वङ्गत्वमेतेषां यथाऽऽदित्यो मुख्यो रश्मयोऽङ्गीभूतास्तथा चमसाध्वर्यबोऽध्वर्व- ङ्गभूता इति । अध्वर्युणा केवलेनैकदा सर्वचमसहोमस्य कर्तुमशक्यत्वात्तच्छेषत्वेन वरणमेतेषाम् । अत एव चमसाध्वर्यव इति संज्ञा । अत एव च होत्रध्व दिगतो विशेषो यः स तत्र नास्तीति कल्पितम् । अत एव च गौणमत्विक्त्वम् । एतेषां संख्यां तु वक्ष्यति सूत्रकार एव सर्वेषां प्रतिपुरुष चमसाध्वयंव इति । तृतीयाध्याये सप्तमे पादे जैमिनिरपि --उत्पत्तौ तु बहुत्ववैनेरिति । चमसाध्वयंन्वृणीत इत्युत्पत्ती बहुत्वे श्रुते बह्व एव चमसाध्वर्यव इत्यर्थः । दशत्वं लिङ्गदर्शनादिति च। स्थिते बहुत्वे कियन्तो वहव इत्यनियम त्रित्वे वा प्राप्ते चमतदशत्वाद्दशभिस्तावद्भवित. व्यम् । आधिक्ये प्रमाणामावाद शैवेति । नचैकेन पुंमा हस्तद्वयेन द्वयोश्चमसयोहोंतु शक्यत्वात्कथं चमसदशत्वेऽपि चमसाध्वhणां दशत्वमिति वाच्यम् । मा होषीदेक एव द्वाभ्यां हस्ताम्यां द्वौ चमताविति शाखान्तरे निषेधेन दक्षिणाचारेण कर्तव्यमिति नियमेन च हस्तद्वयेन होमायोगादिति भावः । दशपेय ज्योतिष्टोमविकृतिभूते दश दशैकैकं चमसमनुप्रसर्पन्तीति विधिशेपे दश चमसाध्वर्यव इति दशल्वानुवादरूपलि. ङ्गदर्शनात्प्रकृतौ दशत्वं भवतीत्यर्थः । नच गौणमप्यस्विक्त्वं चमसाध्वर्यष माऽस्थिति वाच्यम् । सर्वस्विक्त्वाभावे समन्त्रकवरणानुपपसस्तावना चमसयागकर्तृत्वासंभवात् , प्रतचर्यालामार्थ तस्वत्यावश्यमङ्गीकरणीयत्वाच्च । इई ज्ञापयितुमेवावग्यहणं कृतं मूत्रकृता । मुख्यविक्रवाभावाजपाभित्र जनादि तानूननादिकं च परं तेषां न माति ।