पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्न- नह्ययं नियमों ये समन्त्रकं वृतास्त एव मुख्या ऋत्विज इति । दर्शपूर्णमासादिषु तदभावापत्तेः । इष्टापत्तौ तु मुख्ययागकर्तृत्वानुपपत्तिः । अत इदं सिद्धं भवति चम- साध्वर्युषु मुख्यमृत्विक्त्वं नास्त्येवेति । षोडशवचनं सदस्यव्यावृत्त्यर्थं चतुर्णा वरणपक्षेऽपि अमत्रकवरणवत्स्वप्यत्विक्त्वं तुल्यमेवेतिप्रदर्शनार्थ वा । तेनामन्त्रकवरणवतामपि व्रत- चर्या भवत्येव सर्वत्रेति सिद्धं भवति । एकैकश इति वचनं समुदायेन वरणं व्यावत- यितुम् । इदं वरणं लौकिकं भिन्नमेव । अग्ने पुनर्वृणीत इतिवचनोपादानात् । अत एवैकैकश इति वचनमपि संगतं भवति । अन्यथा समन्त्रकवरणे मन्त्रभेदादेवैतस्यार्थ. स्य सिद्धाकैकश इतिवचनस्य वैयपित्तेः । होत्रकवरणे प्रतिप्रस्थात्रादिवरणे. च तत्तदृतिङ्नाम्नां तत्तन्मन्त्रेष्वनिर्देशासमन्त्रकवरणेन केवले तस्य मैत्रावरुण इति नाम, एतस्य ब्राह्मणाच्छंसीत्यादेमन्त्रेभ्यो ज्ञातुमशक्यत्वेन निर्वाहासंभवादमन्त्रकवरणमाव- श्यकमेव । इदमप्यतेन ज्ञातं भवति सर्वान्य जमानगृहं प्रति सोमप्रवाक आनीय तत्राऽऽ- मन्त्रणं कुर्यादिति । इदं च प्रथम वरणं सर्वेषां समानमेव । द्वितीयं समन्त्रकं वरणं तु चतुर्णा वरणपक्षे चतुर्णामेव । महत्विग्व्यतिरिक्तानां तु पूर्वेणैव वरणेन सिद्धिः । होत्रादीनां द्वितीय लौकिकवरण तु मन्त्रसंस्कारार्थमपेक्षत एवेति द्रष्टव्यम् ।

होता मैत्रावरुणोऽच्छावाको ग्रावस्तुच्च होतारोऽध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता चाध्वर्यवो ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः पोता च ब्रह्माण उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्यश्चोद्गातारः ।

होतार इति मैत्रावरुणाच्छावाकग्रावस्तुत्स्वपि होतृसंज्ञासिध्द्यर्थे, फलं थेदप्रतिरथं द्वितीयो होते त्यत्र मैत्रावरुणस्य होतृग्रहणेन ग्रहणम् । सर्वेषां समन्त्रकवरणपक्षे ग्रावस्तुबरणे होतृवरणमन्त्रप्रवृत्तिश्च । अध्वर्यव इति प्रतिप्रस्थातृनष्टुनेतृप्वपि अव. युसंज्ञासिध्द्यर्थ, फलं तामध्वर्यव उद्गृह्णन्ति चतुरोऽध्वर्युभोजयेदित्यादिषु प्रतिप्रस्थातृ. नेष्टुन्नेतृणां ग्रहणम् । प्रतिप्रस्थात्रुन्नेतृवरणेऽध्वर्युवरणमन्त्रप्रवृत्तिश्च । उद्गातार इति प्रस्तोतृप्रतिहर्तृसुब्रह्मण्येष्वपि उद्गातृसंज्ञासिद्ध्यर्थम् । फलं प्राञ्चमुद्गातारो द्रोणकलशं प्रावस्वध्यूहन्त्यधोक्षमुपकर्षन्तीत्यादिषु प्रस्तोतृपतिहर्बोहणम् । प्रस्तोतृप्रतिहर्तृसुब्रह्म ण्यवरण उद्गातृमन्त्रप्रवृत्तिश्च । सर्वकर्तव्यताऽपि पदार्थानुष्ठाने गणकम एव भवति न मुख्याश्चत्वार आदौ ततोऽधिनश्चत्वारस्ततस्तृतीयिनश्चत्वारस्ततः पादिनश्चत्वार इत्येवं क्रमो भवति । होतारोऽध्वयंवो ब्रह्माण उद्गातार इतिसंज्ञाचतुष्टयकरणसाधारणं प्रयोजनं द्रष्टव्यम् । एतेनानुक्रमणेनेयत्ताऽप्यवधृता । चमसाध्वर्गुणामृत्विक्त्वमप्येतेन वारितं भवति । षोडशस्विनः क : इत्याकाङ्क्षाऽप्येतेन पूर्यते । तृतीयाध्याये सप्तमे पादे जैमिनिरपि नियमस्तु दक्षिणामिः श्रुतिसंयोगादिति । ऋत्विगम्यो दक्षिणां ददात्यग्नीधे .च. "नांद। २.च..यदि प्रा