पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ प्र०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । नातिकृष्णोऽननिकृष्णः । नातिश्वेतोऽनतिश्वेतः । कृष्णश्वेतशब्दौ वर्णवाचिनौ वयो. वाचिनौ च नातिबालो नातिवृद्ध इति । याज्यस्यापि लक्षणमाहतुः-याज्यश्च प्रथमै. स्त्रिभिणारख्यात इति । याज्यो यष्टा यजमान इति यावत् । सोऽपि एवंलक्षणो भवति यादृग्लक्षणा ऋत्विजः। प्रथमै त्रिभिर्गुणैाख्यातो भवति लुप्तविभाष सूत्रम् । गुणग्रहणं क्षत्रियवैश्ययोर्यथासमवं गुणा ग्राह्या इत्येतदर्थम् । बौधायन:- अविना वरणं विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्नुतवृत्तसंपन्ना अविगुणाका अत्रिकिणिनो न परिखाक्रान्ता नान्तगा नात्य(न्त)ना नाननूचाना न हालेय [वालेय]- पुत्रिकापुत्रपरक्षेत्रसहोडकानीनानुनावरद्विप्रवरा आशिरसोऽध्वर्युसिष्ठो ब्रह्मा विश्वा- मित्रो होताऽयास्य उद्गाता कौषीतकः सदस्यो वसिष्ठा भृवङ्गिरसो वा योनिवृत्त- विद्याः प्रमाणमित्येके ताश्चेवृणीताव्यापन्नाङ्गानेद वृणीताकुनखिनमध्वर्युमकिलासिन ब्रह्माणमषण्ढं होतारमकरालमुद्गातारमशिपिविष्टं सदस्यमिति । योनिः परिशुद्धयोनिः, गोत्रं सद्वंशः, श्रुतमध्ययनं, वृत्तमाचारः । एतैः संपन्ना युक्ताः । अविगुणाङ्गा भवि- कलाङ्गाः । अत्रिकिणिनः, त्रयः किणा येषां सन्ति ते त्रिकिणिनस्तद्भिन्नाः । किणा आघातादिना जातानि देहगतचिह्नानि । अत्रत्यत्रिकिणशब्देन मल्लयुद्धसंनाहार्था- स्फोटनज्याघातभारादिवहनैरुत्पन्नाः किणा विवक्षिताः । एतादृशकिणमध्य एकेनापि किणेन युक्ता न भवेयुरित्यर्थः । इस मुपलक्षणम् । अविहितकार्येषु भूयोभ्यासजनित- चियुक्ता अपि न भवेयुरिति बोध्यम् । न परिखातिक्रान्ताः , परिखा मर्यादा समुद्र- वेला तामतिकान्ताः समुद्रयायिन। न भवेयुरित्यर्थः । नान्तगाः, अन्तं प्रत्यन्तं देश म्लेच्छदेशमिति यावत् । तं गच्छन्तीत्यन्तगाः, ते न भवेयुरित्यर्थः । अन्तमन्तवर्ण गच्छन्ति शूद्रस्त्रियं गच्छन्तीति यावत् । तेऽपि न भवेयुः । अन्तमित्युपलक्षणम् , अगम्यां स्त्रियं ये गच्छन्ति तेऽपि न भवेयुरिति । नान्तना अन्त नाः पूर्वोक्तदेशना- तास्ते न भवेयुरित्यर्थः । ये शूद्रस्त्रियामुत्पन्नास्तेऽपि न भवेयुः । नाननूचाना अनन- चाना अनोत्रियास्ते न वरणीयाः । हलेन कृषि कृत्वा ये जीवन्ति ते हालेयाः । बालमूर्णाप्रकीर्णकादिकं विक्रीय ये जीवन्ति ते वालेयाः । कन्यादानसमये-अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति । इत्यभिसंधानेन दत्तायां पुत्रिकाया जाताः पुत्रिकापुत्राः । परक्षेत्रे जारेणोत्पन्नाः परक्षेत्राः । विवाहसमय एव मात्रा सह गर्भस्थः सन्नेव दत्तः सहोढः । कन्यायामवि- वाहितायामेव जातः कानीनः । अनुनस्य गुणभूतो ज्येष्ठ आनुनावरः । एकस्मिन्गोत्र उत्पन्नोऽपरस्मिन्गोत्रे दत्तो द्विप्रवरः । एतान्हालेयादीबत्विक्त्वेन न वृणीतेत्यर्थः । वसिष्ठा मृवङ्गिरसो वेत्ययं पक्षस्तत्तद्गोत्रविशिष्टलिंगभावे द्रष्टव्यः । यद्यन्मुख्यानां गोत्रं तदेव तत्तद्गणस्थानां पुरुषाणां त्रयाणां त्रयाणाम् । इदं च मुख्यानां गोत्रनियम- पक्षे । योनिः परिशुद्धयोनिः । वृत्तमाचारः । विद्या वैदिकविद्या च प्रमाणं वरणयो- ।